पूर्वम्: ४।४।४९
अनन्तरम्: ४।४।५१
 
सूत्रम्
अवक्रयः॥ ४।४।५०
काशिका-वृत्तिः
अवक्रयः ४।४।५०

तस्य इत्येव। षष्ठीसमर्थातवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अवक्रीणिते ऽनेन इति अवक्रयः पिण्डकः उच्यते। शुल्कशालायाः अवक्रयः औल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। ननु अवक्रयो ऽपि धर्म्यम् एव? न एतदस्ति। लोकपीडया धर्मतिक्रमेण अप्यवक्रयो भवति।
न्यासः
अवक्रयः। , ४।४।५०

बाल-मनोरमा
अवक्रयः १५७९, ४।४।५०

अवक्रयः। तस्येत्यनुवर्तते। तदाह--षष्ठ()न्तादिति।

तत्त्व-बोधिनी
अवक्रयः १२२०, ४।४।५०

अवक्रयः। अवक्रीयते अनेनेति करणे "एरच्"।