पूर्वम्: ४।४।५०
अनन्तरम्: ४।४।५२
 
सूत्रम्
तदस्य पण्यम्॥ ४।४।५१
काशिका-वृत्तिः
तदस्य पण्यम् ४।४।५१

तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं पण्यं चेत् तद् भवति। अपूपाः पण्यम् अस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। पण्यम् इति विशेषनं तद्धितवृत्तावन्तर्भूतम् अतः पण्यशब्दो न प्रयुज्यते।
न्यासः
तदस्य पण्यम्। , ४।४।५१

अपूपाः पण्यमस्येत्यापूपिकः। अथ यथा वाक्ये पण्यशब्दो युज्यते तथा वृत्तावपि कस्मान्न युज्यते? इत्याह-- "पण्यम्" इति। "विशेषणम्" इत्यादि। अथ य एवमवेक्ष्यमाणः पण्यार्थं वृत्तावन्तर्भावयति तेन गतार्थत्वात् पण्यशब्दो न प्रयुज्यते॥
बाल-मनोरमा
तदस्य पण्यम् १५८०, ४।४।५१

तदस्य पण्यम्। अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः। विक्रेतव्यं द्रव्यं-पण्यम्। लवणाट्ठञ्। "तदस्य पण्य"मित्येव।

तत्त्व-बोधिनी
तदस्य पण्यम् १२२१, ४।४।५१

पण्यमिति। पणितव्येऽर्थे "अवद्यपण्ये"ति यदन्तो निपातितः।