पूर्वम्: ४।४।५३
अनन्तरम्: ४।४।५५
 
सूत्रम्
शलालुनोऽन्यतरस्याम्॥ ४।४।५४
काशिका-वृत्तिः
शलालुनो ऽन्यतरस्याम् ४।४।५४

शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। पक्षे सो ऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यम् अस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी।
न्यासः
शलालुनोऽन्यतरस्याम्। , ४।४।५४

"शलालुकः"इति। "इसुसुक्तान्तात् कः" ७।३।५१
बाल-मनोरमा
शलालुनोऽन्यतरस्याम् १५८३, ४।४।५४

शलालुनोऽन्यतरस्याम्। "ष्ठ"न्निति शेषः। "तदस्य पण्यमित्येव। "शलालुक इति। शलालु पण्यमस्येति विग्रहः। उकः परत्वाट्ठस्य कः। षित्त्वस्य फलमाह--शलालुकीति।

तत्त्व-बोधिनी
शलालुनोऽन्यतरस्याम् १२२२, ४।४।५४

शलालुक इति। "इसुसुक्तान्तात्कः"। ठक्पक्षे त्वादिवृद्धिः। शालालुकः। मार्दङ्गिक इति। मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते। मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः।