पूर्वम्: ४।४।५४
अनन्तरम्: ४।४।५६
 
सूत्रम्
शिल्पम्॥ ४।४।५५
काशिका-वृत्तिः
शिल्पम् ४।४।५५

तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पम् अस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययम् उत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति।
लघु-सिद्धान्त-कौमुदी
शिल्पम् ११२९, ४।४।५५

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥
न्यासः
शिल्पम्। , ४।४।५५

"शिल्पं कौशलम्" इति। क्रियाभ्यासपूर्वको ज्ञानविशेषः। "मृदङ्गवादनं शिल्पमस्य" इति। मृदङ्गो वाद्यते येन शिल्पेन तन्मृदङ्गवादनम्। ननु च मृदङ्गवादनं शिल्पं यस्येति विगृह्र प्रत्यय उत्पद्यमानो मृदङ्गवादनशब्दादेव प्राप्नोति, न तु मृदङ्गशब्दात्, ततो मार्दङ्गवादनिक इति भवितव्यम्, तत्कथं मार्दङ्गिक इति भवति? इत्याह-- "मृदङ्गवादनम्" इत्यादि। मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वत्र्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः। न चायं नियमः-- येन विग्रहः क्रियते, तत एव प्रत्ययेन भवितव्यमिति। यथा ह्रवेरिदं मांसमाविकम्, मांसमित्यविशब्देन विग्रहः क्रियतेऽविकशब्दादेव प्रत्ययो भवति, तथेहापि मृदङ्गवादनशब्देन विग्रहः क्रियते, प्रत्ययस्तु मृदङ्शब्दाद्भवति। तेन तत्र गतार्थत्वाच्छिल्पशब्दो न प्रयुज्यत इत्यभिप्रायः॥
बाल-मनोरमा
शिल्पम् १५८४, ४।४।५५

शिल्पम्। तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः। क्रियासु कौशलं शिल्पम्। ननु "मार्दङ्गिक" इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात्। तत्राह--मृदङ्गवादनमिति। मृदङ्गवादनविषयकमित्यर्थः। मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः।

तत्त्व-बोधिनी
शिल्पम् १२२३, ४।४।५५

शिल्पं--क्रियाकौशलम्। तच्च मृदङ्गवादनविषयकम्। तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः।