पूर्वम्: ४।४।५५
अनन्तरम्: ४।४।५७
 
सूत्रम्
मड्डुकझर्झरादणन्यतरस्याम्॥ ४।४।५६
काशिका-वृत्तिः
मड्डुकझर्झरादणन्यतरस्याम् ४।४।५६

मड्डुकझर्झरशब्दाभ्याम् अन्यतरस्याम् अण् प्रत्ययो भवति तदस्य शिल्पम् इत्येतस्मिन् विषये। पक्षे सो ऽपि भवति। मड्डुकवादनं शिल्पमस्थ माड्डुकः, माड्डुकिकः। झार्झरः, झार्झरिकः।
न्यासः
मड्डुकझर्झरादणन्यतरस्याम्। , ४।४।५६

बाल-मनोरमा
मड्डुकझर्झरादणन्यतरस्याम् १५८५, ४।४।५६

मड्डुकझर्झरात्। "तदस्य शिल्प"मित्येव। पक्षे ठक्।मड्डुकझर्झरौ--वाद्यविशेषौ।