पूर्वम्: ४।४।५
अनन्तरम्: ४।४।७
 
सूत्रम्
गोपुच्छाट्ठञ्॥ ४।४।६
काशिका-वृत्तिः
गोपुच्छाट् ठञ् ४।४।६

गोपुच्छशब्दाट् ठञ् प्रत्ययो भवति तरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। स्वरे विशेषः। गौपुच्छिकः।
न्यासः
गोपुच्छाट्ठञ्। , ४।४।६

"स्वरे विशेषः"इति। ठकि हि सति तद्धितस्य "कितःर" ६।१।१५९ इत्यन्तोदात्तत्वं स्यात्। ठञि सति ञित्सरेणाद्युदात्तत्वं भवति॥
बाल-मनोरमा
गोपुच्छाट्ठञ् १५३३, ४।४।६

गोपुच्छाट्ठञ्। "तरतीत्यर्थे तृतीयान्ता"दिति शेषः।