पूर्वम्: ४।४।६१
अनन्तरम्: ४।४।६३
 
सूत्रम्
छत्रादिभ्यो णः॥ ४।४।६२
काशिका-वृत्तिः
छत्रादिभ्यो णः ४।४।६२

छत्र इत्येवम् आदिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलम् इत्येतस्मिन् विषये। ठको ऽपवादः। छत्रं शीलम् अस्य छात्रः। छादनादावरणाच् छत्रम्। गुरुकार्येष्वहितः तच्छिद्रावरणप्रवृत्तः छत्रशीलः शीष्यः छात्रः। स्थाशब्दो ऽत्र पठ्यते, स उपसर्गपूर्वो ऽत्र गृह्यते आस्था संस्था अवस्था इति। छत्र। बुभुक्षा। शिक्षा। पुरोह। स्था। चुरा। उपस्थान। ऋषि। कर्मन्। विश्वधा। तपस्। सत्य। अनृत। शिबिका। छत्रादिः।
न्यासः
छत्त्रादिभ्यो णः। , ४।४।६२

छत्त्रशीलत्वं शिष्यस्य प्रतिपादयितुमाह-- "छादनादपवारणाच्छत्त्रम्" इत्यादि। अपवारिणादित्यनेन च्छादनादित्यस्यार्थं व्यक्तीकरोति। आच्छादयति हि यत् तच्छत्रमित्युच्यते , तेन शिष्योऽपि गुरुकार्यतत्परो गुरुर्यानि च्छिद्राणि गोपयति तेषामावरणाय प्रवृत्तस्तत्र युक्तः सच्छत्रसहचरितां क्रियामाचरँश्छत्त्रशीलो भवति। "स्थाशब्दोऽत्र पठ()ते, स चोपसर्गपूर्वो गृह्रते" इति। ततश्च तस्य "आतश्चोपसर्गे" ३।३।१०६ इत्यङ्प्रत्ययमुत्पाद्याप्युत्पादितत्वात्। केवलस्य तु पाठः सर्वोपसर्गसंग्रहार्थः। "चुरा" इति, पठ()ते, तत्र निपातनादकारप्रत्ययो गुणाभावश्च॥
बाल-मनोरमा
छत्रादिभ्यो णः १५९१, ४।४।६२

छत्रादिभ्यो णः। एभ्यः प्रथमान्तेभ्योऽस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः। छत्रं शीलमस्य छात्र इत्युदाहरणं वक्ष्यति, तत्र छत्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह--गुरोरिति। शीलमित्यर्थे छत्रादित्वाण्णप्रत्यये कृते-।

तत्त्व-बोधिनी
छत्त्रादिभ्यो णः १२२७, ४।४।६२

छत्रादिभ्यो णः। "छत्रादिभ्योऽ"णित्येव सुवचमिति "कार्मस्ताच्छील्ये"इति सूत्रे कैयटः। ताच्छील्ये णे इति। कर्मन्शब्दस्य छत्रादित्वादिति भावः। चौरीत्यादि। चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे णप्रत्यये सति तदन्तान्ङीप् सिद्ध्यतीत्यर्थः।