पूर्वम्: ४।४।६५
अनन्तरम्: ४।४।६७
 
सूत्रम्
तदस्मै दीयते नियुक्तम्॥ ४।४।६६
काशिका-वृत्तिः
त दस्मै दीयते नियुक्तम् ४।४।६६

ततिति प्रथमासमर्थादस्मा इति चतुर्थ्यर्थ ठक् प्रत्ययो भवति यत् तत् प्रथमासमर्थं तच् चेद् दीयते नियुक्तम्। नियोगेन अव्यभिचारेण दीयते इत्यर्थः। अव्यभिचारो नियोगः। अग्रे भोजनम् अस्मै नियुक्तं दीयते आग्रभोजनिकः। आपूपिकः। शाष्कुलिकः। केचित् तु नियुक्तं नित्यम् आहुः। अपूपा नित्यम् अस्मै दीयन्ते आपूपिकः।
न्यासः
तदस्मै दीयते नियुक्तम्। , ४।४।६६

ननु च "तदसय् पण्यम्" ४।४।५१ इत्यतस्तदिति प्रथमा समर्थविभक्तिरनुवर्तिष्यते, तदपार्थकं पुनः प्रथमासमर्थविभक्त्युपादानाम्; "अस्मै" इति प्रत्ययार्थोप्यपार्थक एव। तथा हि "अस्य" ४।४।५१ इत्यनुवत्र्तते, तत्र "दीयतौ" इति इत्यभिसम्बन्धात्त्तु सम्()परदानत्वेन भवितव्यम्। ततश्च शेषसम्बन्धे निवृत्ते चतुथ्र्यमत्र विपरिणम्यते, तस्मात् "दीयते नियुक्तम्" इत्येतावदेव वक्तव्यम्? अत्रोच्यते-- समर्थविभक्त्युपादानं तावत् पूर्वसूत्रे समर्थविभक्तिविशेषः प्रत्ययनुत्पादयतीत्यसय् सूचनार्थम्। तेनेह न भवति-- दुःखमस्याध्यने वृत्तम्, अजयोऽस्याध्ययने वृत्त इति। अपपाठ एव हि वृत्ते प्रत्यय इष्यते। दीयमाने न सर्वस्मात् चतुर्थी-- अरेः पृष्ठं ददातीति। स च षष्ठ()आ एव विषयोऽर्थः। षष्ठ()र्थं एव प्रत्ययो विज्ञायते, चतुथ्र्यन्ताद्यथा स्यात्। एवं "अस्मै" इति प्रत्ययार्थो निर्दिश्यते॥
बाल-मनोरमा
तदस्मै दीयते नियुक्तम् १५९७, ४।४।६६

तदस्मै दीयते नियतम्। अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः।