पूर्वम्: ४।४।६६
अनन्तरम्: ४।४।६८
 
सूत्रम्
श्राणामांसौदनाट्टिठन्॥ ४।४।६७
काशिका-वृत्तिः
श्राणामांसओदनाट् टिठन् ४।४।६७

श्राणामांसओदनशब्दाभ्यां टिठन् प्रत्ययो भवति तदस्मै दीयते नियुक्तम् इत्येतस्मिन्नर्थे। ठको ऽपवादः। इकार उच्चारणार्थः। टकारो ङीबर्थः। श्राणा नियुक्तम् अस्मै दीयते श्राणिकः। श्राणिकी। मांसौदनिकः। मांसौदनिकी। अथ ठञेव कस्मान् न उक्तः, न ह्यत्र ठञष् टिठनो वा विशेषो ऽस्ति? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः। ओदनिकः। ओदनिकी।
न्यासः
श्राणामांसौदनाट्?टिठन्। , ४।४।६७

"अथ ठञेव कस्मान्नोक्तः" इति। एव हि लघु सूत्रं भवतीति भावः। स्यादेतत्-- ठञ्टिठनोर्विशेषोऽस्ति, अतष्टिन्नुक्तो न ठञ्? इत्यत आह--- "न ह्रत्र" इत्यादि। द्व्योरप्यनयोर्वृद्धत्वान्नास्ति विशेषः। योऽपि "वृद्धिनिमित्तस्य" ६।३।३८ इत्यादिना ठञि पुंवद्भावप्रतिषेधः, तसय् "न कोपधायाः" ६।३।३६ इति टिठ्न्नप्यभावान्नात्र ठञ्टिठनोः कश्चिद्विशेषोऽस्ति। "मांसौदन" इत्यादिना विशेषं दर्शयति। "केचित्" इति वचनाद्विगृहीतग्रहणं केचिन्नेच्छनतीत्येतदुक्तं भवति। तन्मते ठञेव वक्तव्यः। टिठत्वचनं वैचित्र्यार्थ वेदितव्यम्॥
बाल-मनोरमा
श्राणामांसौदनाट्टिठन् १५९८, ४।४।६७

श्राणामांस। "तदस्मै दीयते नियत"मित्येव। श्राणा=यवागूः। "यवागूरुष्णिका श्राणा विलेपी तरला च से"त्यमरः। टित्त्वं ङीबर्थम्। तदाह--श्राणिकीति। सङ्घातविगृहीतार्थमिति। ठकैव सिद्धे "ओदनिक" इत्यत्र आदिवृद्ध्यभावार्थं प्रत्ययान्तरविधानमिति भावः।

तत्त्व-बोधिनी
श्राणामांसौदनाट्टिठन् १२३०, ४।४।६७

श्राणा। "यवागूरुष्णिक श्राणा विलेपी तरला च से "त्यमरः। टिठनिति। इकार उच्चारणार्थः। टो ङीबर्थः। सङ्घातविगृहीतार्थमिति। "ओदनिक"इत्यत्र हि वृद्धिनिवारणाऽयं टिठन्नारब्धः। अन्यथा लाघवाट्ठञमेव ब्राऊयादिति भावः।