पूर्वम्: ४।४।७०
अनन्तरम्: ४।४।७२
 
सूत्रम्
अध्यायिन्यदेशकालात्॥ ४।४।७१
काशिका-वृत्तिः
अध्यायिन्यदेशकालात् ४।४।७१

तत्र इत्येव। सप्तमीसमर्थाददेशवाचिनः परतिपदिकादकालवाचिनः च अध्यायिन्यभिधेये ठक् प्रत्ययो भवति। अध्ययनस्य यौ देशकालौ शास्त्रण प्रतिषिद्धौ तावदेशकालशब्देन उच्येते, तत इदं प्रत्ययविधानम्। श्माशाने ऽधीते श्माशानिकः। चातुष्पथिकः। अकालात् चतुरदश्यमधीते चातुर्दशिकः। आमावास्यिकः। अदेशकालातिति किम्? स्रुघ्ने ऽधीते। पूर्वाह्णे ऽधीते।
न्यासः
अध्यायिन्यदेशकालात्। , ४।४।७१

अध्येतुं शीलमस्येत्यध्यायी, ताच्छीलिको णिनिः। "अध्ययनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते" इति। अप्रतिषिद्धाभ्यां देशकालशब्दाभ्यामन्यत्वात् पर्युदासवृत्त्याऽभक्ष्यास्पर्शनीयवदध्ययनस्येति। अत आह--- तस्याध्यायिना प्रत्ययार्थेन सन्निधापितत्वात्। न हि विनाध्ययनेनाध्याय्युपपद्यते॥
बाल-मनोरमा
अध्यायिन्यदेशकालात् १६०२, ४।४।७१

अध्यायिन्यदेशकालात्। निषिद्धेति। "अदेशकाले"त्यत्र नञ् निषिद्धे वर्तत इति भावः। श्माशानिकः चातुर्दशिक इति। देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः।

तत्त्व-बोधिनी
अध्यायिन्यदेशकालात् १२३२, ४।४।७१

अध्ययिन्य। अदेशकालात् किम्()। काश्यामधीते। पूर्वाह्णे अधीते।