पूर्वम्: ४।४।७५
अनन्तरम्: ४।४।७७
 
सूत्रम्
तद्वहति रथयुगप्रासङ्गम्॥ ४।४।७६
काशिका-वृत्तिः
तद्वहति रथयुगप्रासङ्गम् ४।४।७६

रथ्यः। युग्यः। प्रासङ्ग्यः। तद्वहति रथयुगप्रासङ्गम् ४।४।७६। तदिति द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः। रथसीताहलेभ्यो यद् विधौ इति तदनतविध्युपसङ्ख्यानात् परमरथ्यः इत्यपि भवति।
लघु-सिद्धान्त-कौमुदी
तद्वहति रथयुगप्रासङ्गम् ११३४, ४।४।७६

रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥
न्यासः
तद्वहित रथयुगप्रासङ्गम्। , ४।४।७६

तदिति द्वितीयामर्थविभक्तौ लब्धायां रथादीनां द्वितीयानिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेनेहव भवति-- गौर्युग्य इति; इह न भवति-- युगं वहति राजा कलिं द्वापरं वेति। तथा प्रासज्यत इति प्रासङ्गः, यत् काष्ठं वहनकाले वत्सानां कण्ठाअसज्यते तत्प्रासङ्गः, तं वहति प्रासङ्ग्यः। इह न भवति-- प्रसङ्गादागतं प्रासङ्गम्। "युग्यञ्च पत्त्रे" ३।१।१२१ इति निपातनाद्युग्यशब्दे सिद्धे युगग्रहणं स्वरार्थम्। न युग्यमयुग्यमित्यत्र नञो गुणप्रतिषेधे "सम्पाद्यर्हहितालमर्थास्तद्धिताः" ६।२।१५४ इत्यतो नञ इत्यनुवत्र्तमाने "ययतोश्चातदर्थे" ६।२।१५५ इति नञ उत्तरस्यान्तोदात्तत्वं यथा स्यात्। तेन न ह्रेकस्वरो लभ्यते। तस्य क्यबन्तत्वात्॥
बाल-मनोरमा
तद्विहति रथयुगप्रासङ्गम् १६०७, ४।४।७६

तद्विहति रथ। रथादि वहतीत्यर्थे द्वितीयान्ताद्रथ युग प्रासङ्ग इति त्रयाद्यत्स्यादित्यर्थः। युग्य इति। रथादिवहनकाले अ()आआदिस्कन्धेषु तिर्यग्यत् काष्ठमीषत्प्रोतमासज्यते तद्युगम्। तद्विहतीत्यर्थः। दमनकाले इति। रथादिवहने सुशिक्षिताव()आऔ नियुज्य तत्स्कन्धवाह्रयुगे यद्युगान्तरमासज्य तस्मिन्नशिक्षिता अ()आआदयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः। "प्रासङ्गो ना युगाद्युगे" इत्यमरः।

तत्त्व-बोधिनी
तद्वहति रथयुगप्रासङ्गम् १२३६, ४।४।७६

युग्य इति। युगं रथाङ्गं वहतीत्यर्थः। प्रासङ्ग इति। प्रासज्यते असाविति कर्मणि घञ्।