पूर्वम्: ४।४।७७
अनन्तरम्: ४।४।७९
 
सूत्रम्
खः सर्वधुरात्॥ ४।४।७८
काशिका-वृत्तिः
खः सर्वधुरात् ४।४।७८

तद्वहति इत्येव। सर्वधुराशब्दाद् द्वितीयासमर्थात् वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। सर्वधुरां वहति सर्वधुरीणः। स्त्रीलिङ्गे न्याय्ये सर्वधुरातिति प्रातिपदिकमात्रापेक्षो निर्देशः। खः इति योगविभागः कर्तव्यः इष्टसङ्ग्रहार्थः। उत्तरधुरीणः। दक्षिणधुरीणः।
न्यासः
खः सर्वधुरात्। , ४।४।७८

"सर्वधुरम्" इति। सर्वा चासौ धूश्चेति "पूर्वकालैक" २।१।४८ इत्यादिना समासः। "ऋक्पूरब्धूः" ५।४।७४ इत्यादिना समासान्तः। "स्त्रीलिङ्गे न्याय्ये" इति। तत्पुरुषस्योत्तरपदार्थप्रधानत्वात् "परवलिह्घं द्वन्द्वतत्पुरुषयोः" २।४।२६ इति धूःशब्दस्य यल्लिङ्गं तदेव न्याय्यमिति। तत्र "सर्वधुरायाः" इति सूत्रे कत्र्तव्ये यतः सर्वधुरादिति नपुंसकलिङ्गेन निर्देशः स शब्दरूपापेक्षः, अर्थापेक्षे हि निर्देशे परवल्लिङ्गता भवति। अयन्तु शब्दरूपापेक्षः,शब्दरूपञ्च नपुंसकमिति नपुंसकेनैव निर्देशो युक्तः। अर्थविवक्षायां तु स्त्रीलिङ्गमेव भवति-- सर्वधुरां वहतीति॥
बाल-मनोरमा
खः सर्वधुरात् १६१०, ४।४।७८

खः सर्वधुरात्। सर्वा धूः सर्वधुरा। "पूर्वकाल" इति तत्पुरुषः। "ऋक्पू"रिति समासान्तः। "परवल्लिङ्ग"मिति स्त्रीत्वाट्टाप्। इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः। द्वितीयान्तात्सर्वधुराशब्दाद्वहतीत्यर्थे खः स्यादित्यर्थः। सर्वधुरीण इति। सर्वधुरां वहतीत्यर्थः। "स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः" इत्यमरः।

तत्त्व-बोधिनी
खः सर्वधुरात् १२३९, ४।४।७८

खः सर्वधुरात्। "सर्वधुराया"इति वक्तव्ये नपुंसकनिर्देशः शब्दस्वरूपापेक्षया "बन्धुनि बहुव्रीहौ"इतिवत्। सर्वधुरामिति। "पूर्वकालैके"ति समासः। "ऋक्पूरब्धुः---"इति समासान्ते अप्रत्यये टाप्।