पूर्वम्: ४।४।७९
अनन्तरम्: ४।४।८१
 
सूत्रम्
शकटादण्॥ ४।४।८०
काशिका-वृत्तिः
शकटादण् ४।४।८०

तद्वहति इत्येव। शकटशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे अण् प्रत्ययो भवति। शकटम् वहति शाकटो गौः।
न्यासः
शकटादण्। , ४।४।८०

रथशकटहलसीरेभ्यः प्रत्ययविधानमनर्थकम्, "तस्येदम्" ४।३।१२० इत्यनेनैव सिद्धत्वात्। शब्दभेदाद्विधानमिति चेदन्यो हि शब्दो रथं वहतीति, अन्यो हि रथस्य वोढेति। तदाऽर्थाश्रयत्वात् प्रत्ययविधानस्यार्थसामान्यात् सिद्धम्। न हि कश्चिद्रव्यमित्युक्ते रथस्यायमित्येवावैति, वहत्यर्थः प्रतीयते। तस्मात् स्यादेव रथाद्यत्॥
बाल-मनोरमा
शकटादण १६१२, ४।४।८०

शकटादण्। द्वितीयान्ताच्छकटशब्दाद्वहतीत्यर्थे अण् स्यादित्यर्थः। यतोऽपवादः।

बाल-मनोरमा
अगारान्ताट्ठन् १६०१, ४।४।८०

अगारान्ताट्ठन्। तत्र नियुक्त इत्येव। नित्त्वान्नादिवृद्धिः। तदाह--देवगारिक इति।

तत्त्व-बोधिनी
शकटादण् १२४१, ४।४।८०

शाकटो गौरिति। ननु "तस्येद "मित्यणा सिद्धम्। यौ हि शकटं वहति शकटस्यासौ भवति। अत्राहुः---आरम्भसामथ्र्यादत्र तदन्तविधिः। तेन द्वे शकटे वहति द्वैशकट इत्यत्र "द्विगोर्लुगनपत्ये"इति प्राग्दीव्यतीयो लुङ् न भवति, "तस्येद"मित्यणि तु स्यादेव लुगिति।