पूर्वम्: ४।४।८६
अनन्तरम्: ४।४।८८
 
सूत्रम्
पदमस्मिन् दृश्यम्॥ ४।४।८७
काशिका-वृत्तिः
पदम् अस्मिन् दृश्यम् ४।४।८७

निर्देशातेव प्रथमा समर्थविभक्तिः। पदशब्दात् प्रथमासमर्थाद् दृश्यार्थोपाधिकादस्मिन्निति सप्तम्यर्थे यत् प्रत्ययो भवति। पदं दृश्यम् अस्मिन् पद्यः कर्दमः। पद्याः पांसवः। शक्यार्थे कृत्यः। शक्यते यस्मिन् पदं मूल्याः, सुष्ठु द्रष्टुं प्रतिमुद्रोत्पादनेन स पद्यः कर्दमः। कर्दमस्य अवस्था उच्यते नातिद्रवो नातिशुष्क इति।
न्यासः
पदमस्मिन् दृश्यम्। , ४।४।८७

कर्मणः कृतैवाभिहितत्वाद्()द्वितीया न सम्भवति। न च द्वितीयाप्रथमाभ्यामन्यत्र विभक्तौ पदमिति रूपमुपपद्यते। तस्मात् प्रथमान्तमेवैतदिति निश्चित्याह-- "निर्देशादेव" इत्यादि॥
बाल-मनोरमा
पदमस्मिन्दृश्यम् १६१९, ४।४।८७

पदमस्मिन्दृश्यं। प्रथमान्तात्पदशब्दाद्दृश्यत इत्यर्थे यदित्यर्थः। अत्र तदिति द्वितीयान्तमनुवृत्तं प्रथमया विपरिणम्यते।