पूर्वम्: ४।४।८८
अनन्तरम्: ४।४।९०
 
सूत्रम्
संज्ञायां धेनुष्या॥ ४।४।८९
काशिका-वृत्तिः
संज्ञायां धेनुष्या ४।४।८९

धेनुष्या इति निपात्यते संज्ञायां विषये। संज्ञाग्रहणम् अभिधेयनियमार्थम्। धेनोः सुगागमो यश्च प्रत्ययः निपात्यते। अन्तोदात्तो ऽपि ह्ययम् इष्यते। या धेनुरुत्तमर्णाय ऋणप्रदानाद् दोहनार्थं दीयते सा धेनुष्या। पीतदुग्धा इति यस्याः प्रसिद्धिः। धेनुस्यां भवति ददाऽमि।
न्यासः
संज्ञायां धेनुष्या। , ४।४।८९

"यश्च प्रत्ययः" इति। किमर्थं पुनर्यप्रत्ययो निपात्यते? इत्याह-- "अन्तोदात्तो ह्रयमपीष्यते" इति। यति सति तित्स्वरेणान्तस्वरितत्वात्। अन्तोदात्तश्चेष्यते। तस्माद्यप्रत्यय एव न्याय्यः। न केवलं संज्ञाविषय एवेष्यते; अपि त्वन्तोदात्तोऽपीत्येषोऽपिशब्दस्यार्थः॥
बाल-मनोरमा
संज्ञायां धेनुष्या १६२१, ४।४।८९

संज्ञायां धेनुष्या। यप्रत्ययश्चेति। यति तु तित्स्वर) स्यादिति भावः। धेनुष्येति। या धेनुर्दोहनार्थमुत्तमर्णाय अधमर्णेन दीयते तस्या इयं संज्ञा। तदाह--बन्धके स्थितेति। अमरवाक्यमिदम्। संज्ञायामित्या पादपरिसमाप्तेरधिकारः। संज्ञा हि रूठिर्विवक्षिता।

तत्त्व-बोधिनी
संज्ञायां धेनुष्या १२४८, ४।४।८९

संज्ञायामिति। ऋणप्रत्यर्पणाय या धेनुर्दोहनार्थमुत्तमर्णाय दीयते तस्या संज्ञेयम्।