पूर्वम्: ४।४।८
अनन्तरम्: ४।४।१०
 
सूत्रम्
आकर्षात् ष्ठल्॥ ४।४।९
काशिका-वृत्तिः
आकर्षात् ष्ठल् ४।४।९

आकर्षशब्दाद् ष्थल् प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे। ठको ऽपवादः। लकारः स्वरार्थः। षकारो ङीषर्थः। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्षः इति सुवर्णपरीक्षार्थो निकषोपलः उच्यते।
न्यासः
आकर्षात् ष्ठल्। , ४।४।९

"लकारः स्वरार्थः" इति। लिति प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। "षकारो ङीषर्थः" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष् यथा स्यात्। "आकर्षिकी" इति। "स्वर्णपरीक्षार्थो निकषोपल उच्यते" इति। आकृष्यते स्वर्णमिति कृत्वा।
बाल-मनोरमा
आकर्षात् ष्ठल् १५३६, ४।४।९

आकर्षात्ष्ठल्। तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात्ष्ठलित्यर्थः।

तत्त्व-बोधिनी
आकार्षात् ष्ठल् ११९२, ४।४।९

पाठान्तरमिति। एतच्च भ्वादौ "कषखषे"त्यादिदण्डके "आकषात्ष्ठ"लिति माधवेनोपन्यस्तम्। किन्तु "आकर्षात्पर्पादे"रिति वार्तिकस्याननुगुणम्। तत्र हि नीरेफपाठे वृत्ताऽसङ्गप्रसङ्गात्।