पूर्वम्: ४।४।८९
अनन्तरम्: ४।४।९१
 
सूत्रम्
गृहपतिना संयुक्ते ञ्यः॥ ४।४।९०
काशिका-वृत्तिः
गृहपतिना संयुक्ते ञ्यः ४।४।९०

निर्देशादेव तृतीया समर्थविभक्तिः। गृहपतिशब्दात् तृतीयासमर्थात् संयुक्ते इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति। गृहपतिना संयुक्तः गार्हपत्यो ऽग्निः। अन्यस्य अपि गृहपतिना संयोगो ऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः।
न्यासः
गृहपितना संयुक्ते ञ्यः। , ४।४।९०

"संयुक्ते" इति। सम्बद्ध इत्यर्थः। "अन्यस्यापि" इत्यादि। यथैव हि गृहपतिर्यजनमानो गार्हपत्ये कार्यं करोति, तथा दक्षिणाग्नावाहवनीये च। तस्मादन्यस्यापि दक्षिणादेर्गृहपतिना संयोगोऽस्ति। यद्येवम्, अतिप्रसङ्गोऽन्यत्र प्राप्नोति? इत्याह-- "तत्र् संज्ञाधिकारात्" इत्यादि। अभिधेयनियमार्थं संज्ञाग्रहणमनुवर्तते, तेनेह न भवत्यतिप्रसङ्गः॥
बाल-मनोरमा
गृहपतिना संयुक्ते ञ्यः १६२२, ४।४।९०

गृहपतिना। अस्मिन्नर्थे गृहपतिशब्दात्तृतीयान्ताञ्ञ्यः स्यादित्यर्#H। गार्हपत्योऽग्निरिति। अग्निविशेष इत्यर्थः। तत्र पत्नीसंयोजेषु अग्निहोत्तरे च गृहपतिदेवताकहोमस्य क्रियमामत्वाद्गृहपतियोगः। यद्यपि "देवसूहविःषु अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति" इति हविर्होम आहबनीये क्रियते, तथापि संज्ञाधिकारादाहरवनीये नास्य प्रयोगः।

तत्त्व-बोधिनी
गृहपतिना संयुक्ते ञ्यः १२४९, ४।४।९०

गार्हपत्य इति। "गृहपतिने"ति निर्देशादेव तृतीयान्तात्प्रत्ययः। "संज्ञाया"मित्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः।