पूर्वम्: ४।४।९२
अनन्तरम्: ४।४।९४
 
सूत्रम्
छन्दसो निर्मिते॥ ४।४।९३
काशिका-वृत्तिः
छन्दसो निर्मिते ४।४।९३

प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः। छन्दःशब्दात् तृतीयासमर्थान् निर्मिते इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। निर्मितः उत्पादितः। छन्दसा निर्मितः छन्दस्यः। छन्दसा इच्छया कृतः इत्यर्थः। इच्छापर्याय छन्दःशब्दः इह गृह्यते।
न्यासः
छन्दसो निर्मिते। , ४।४।९३

प्रत्ययार्थसामथ्र्यलभ्या" इति। "निर्मिते" इति प्रत्ययार्थः। तत्र च्छन्दसः करणत्वमिति सामथ्र्यात् तृतीया समर्थविभक्तिर्लभ्यते। छन्दःशब्दोऽयं वेदे त्रिष्टुवादौ, इच्छायाश्च वत्र्तते; इह त्विच्छायां वत्र्तमानो गृह्रते, अत एवाह-- "इच्छाया कृतः" इति। इच्छावृत्तिस्तु संज्ञाग्रहणस्याभिधेयनियमार्थस्यानुवृत्तेर्लभ्यते॥
बाल-मनोरमा
छन्दसो निर्मिते १६२५, ४।४।९३

छन्दसो निर्मिते। छन्दश्शब्दात्तृतीयान्तान्निर्मितेऽर्थे। यदित्यर्थः। इच्छयेति। छन्दःशब्द इच्छावाचीति भावः। "छन्दः पद्येऽभिलाषे चे"त्यमरः।

तत्त्व-बोधिनी
छन्दसो निर्मिते १२५२, ४।४।९३

छन्दसो। "छदि संवरे"इति चुरादिरिच्छायामपि वर्तते, धातूनामनेकार्थत्वात्। ततो घञि इच्छापर्यायश्छन्दः--शब्दः प्रसिद्ध एव "स्वच्छन्दोच्छलदच्छकच्छे"त्यादौ। असुनि तु यः सान्तः सोऽत्र प्रकृतिः। तत्र निर्माणे इच्छायाः करणत्वत्सामथ्र्यात्तृतीयान्तात्प्रत्ययः। इच्छया कृतमिति। यद्यपिवेदे त्रिष्टुबादिषु च सान्तश्छन्दः शब्दोऽस्ति, तथापीह न गृह्रते, संज्ञाधिकारात्, किं त्विच्छापर्याय एव स गृ-ह्रत इति भावः।