पूर्वम्: ४।४।९५
अनन्तरम्: ४।४।९७
 
सूत्रम्
बन्धने चर्षौ॥ ४।४।९६
काशिका-वृत्तिः
बन्धने चर्षौ ४।४।९६

हृदयस्य इत्येव। बन्धने इति प्रत्ययार्थः। तद्विशेषणम् ऋषिग्रहनम्। वध्यते येन तद् बन्धनम्। हृदयशब्दात् षष्ठीसमर्थाद् बन्धने ऋषावभिधेये यत् प्रत्ययो भवति। ऋषिर् वेदो गृह्यते। हृदयस्य बन्धनम् ऋषिः हृद्यः। परहृदयं येन बध्यते वशीक्रियते स वशीकरणमन्त्रो हृद्यः इत्युच्यते।
न्यासः
बन्धने चर्षौ। , ४।४।९६

ऋषिशब्दोऽयमस्त्येव गुणवति पुरुषविशेषे, अस्ति च वेदे;इह संज्ञाधिकारादेव न मनुष्यग्रहणमिति दर्शयति-- "ऋषिर्वेदो गृह्रते (इति)॥
बाल-मनोरमा
बन्धने चर्षौ १६२८, ४।४।९६

बन्धने चर्षौ।

तत्त्व-बोधिनी
बन्धने चर्षौ १२५५, ४।४।९६

बन्धने। बध्यतेऽनेनेति बन्धनः। करणे ल्युट्। वशीकरणमन्त्र इति। ते नहि परह्मदयं वशीक्रियते। संज्ञाधिकारद्व सिष्ठादावृषौ नायं यत्।