पूर्वम्: ४।४।९६
अनन्तरम्: ४।४।९८
 
सूत्रम्
मतजनहलात् करणजल्पकर्षेषु॥ ४।४।९७
काशिका-वृत्तिः
मतजनहलात् करणजल्पकर्षेषु ४।४।९७

मतादिभ्यः त्रिभ्यः शब्देभ्यः त्रिष्वेव करणादिष्वर्थेषु यथासङ्ख्यं यत् प्रत्ययो भवति। प्रत्ययार्थसामर्थ्याल् लब्धा षष्ठी समर्थविभक्तिः। मतं ज्ञानं तस्य करणं मत्यम्। भावसाधनं वा। जनस्य जल्पः जन्यः। हलस्यः कर्षः हल्यः। द्विहल्यः। त्रिहल्यः। कर्षणं कर्षः, भावसाधनं वा।
न्यासः
मतजनहलात् करणजल्पकर्षेषु। , ४।४।९७

"{प्रत्ययार्थसामथ्र्याल्लब्धा--मुद्रितः पाठः।} प्रत्ययार्थसामथ्र्यालभ्या" इति। करणादयः प्रत्ययार्थाः। तत्र करणादयः शब्दा भावे करणे च व्युत्पाद्यन्त इति सामथ्र्यादेवोपलभ्यमाना षष्ठीविभक्तिर्विज्ञायते। यद्यपि कर्षशब्दः परिमाणवचनोऽप्यस्ति, तथापि करणादीनां साहचर्यात् क्रियाशब्द एव गृह्रते। करणशब्दो भावसाधनः। यदा तु करणसाधनः, तदा क्रियतेऽनेनेति करणम्, "रथसीताहलेभ्यो यद्विधौ" (वा।४७३) इति तदन्तविधिरत्रेष्यते। तस्योदाहरणम्---"द्विहल्यः" इति दर्शयति। "भावसाधनञ्च" इति। अत्रापि पूर्ववद्विभागो वेदितव्यः॥
तत्त्व-बोधिनी
मतजनहलात्कर?णजल्पकर्षेषु १२५६, ४।४।९७

मत। तस्य करणमिति। कर्मणि षष्ठी। कृतिः---करणं, क्रियतेऽनेनेति वा तरणमित्याशयेनाह---भावः साधनं वेति। जल्पशब्दो भावसाधनः। कर्तरि षष्ठी। हलस्येति। कर्षणं---कर्षः। तद्योगात्कर्मणि षष्ठी। करहणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी वा। "रथसीते"ति तदन्तविघिः। द्विहल्यः। त्रिहल्यः।