पूर्वम्: ५।१।९८
अनन्तरम्: ५।१।१००
 
सूत्रम्
कर्मवेषाद्यत्॥ ५।१।९९
काशिका-वृत्तिः
कर्मवेषाद् यत् ५।१।१००

कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति सम्पादिनि इत्येतस्मिन् विषये। ठञो ऽपवादः। कर्मणा सम्पद्यते कर्मण्यम् शरीरम्। वेषेण संपद्यते वेष्यो नटः।
न्यासः
कर्मवेषाद्यत्?। , ५।१।९९

"कण्र्यम्()" इति। "ये चाभावकर्मणोः" ६।४।१६८ इति प्रकृतिभावः॥
बाल-मनोरमा
कर्मवेषाद्यत् १७४१, ५।१।९९

कर्मवेषाद्यत्। तृतीयान्तात्कर्मन्शब्दात्, वेषशब्दाच्च संपादिन्यर्थे यत्स्यादित्यर्थः।