पूर्वम्: ५।१।९९
अनन्तरम्: ५।१।१०१
 
सूत्रम्
तस्मै प्रभवति संतापादिभ्यः॥ ५।१।१००
काशिका-वृत्तिः
तस्मै प्रथवति सन्तापाऽदिभ्याः ५।१।१०१

तस्मै इति चतुर्थीसमर्थेभ्यः सन्तापादिभ्यः प्रभवति इत्यस्मिन् विषये ठञ् प्रत्ययो भवति। समर्थः, शक्त प्रभवति इत्युच्यते। अलमर्थे चतुर्थी। संतापाय प्रभवति सान्तापिकः। सान्नाहिकः। सन्ताप। सन्नाह। सङ्ग्राम। संयोग। संपराय। संपेष। निष्पेष। निसर्ग। असर्ग। विसर्ग। उपसर्ग। उपवास। प्रवास। सङ्घात। संमोदन। सक्तुमांसौदनाद्विगृहीतादपि।
न्यासः
तस्मै प्रभवति सन्तापादिभ्यः। , ५।१।१००

"सक्तुमांसौदनाद्विगृहीतादपि" इति। अपिशब्दात्(), सङ्घातादपि। साक्तुमांसौदनिकः। साक्तुकः। मांसिकः। औदनिकः॥
बाल-मनोरमा
तस्मै प्रभवति सन्तापादिभ्यः १७४२, ५।१।१००

तस्मै प्रभवति। चतुथ्र्यन्तेभ्यः संपातादिभ्यः प्रभवतीत्यर्थे ठञ् स्यादित्यर्थः। संतापाय प्रभवतीति। शत्रूणां पीडायै शक्नोतीत्यर्थः।

तत्त्व-बोधिनी
तस्मै प्रभवति सन्तापादिभ्यः १३४३, ५।१।१००

तस्मै प्रभवति। समर्थः शक्तः प्रभवतीत्युच्यते।