पूर्वम्: ५।१।१०१
अनन्तरम्: ५।१।१०३
 
सूत्रम्
कर्मण उकञ्॥ ५।१।१०२
काशिका-वृत्तिः
कर्मण उकञ् ५।१।१०३

कर्मन्शब्दा उकञ् प्रत्ययो भवति तस्मै प्रभवति इत्येतस्मिन्नर्थे। ठञो ऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः। धनुषो ऽन्यत्र न भवति, अनभिधानात्।
न्यासः
कर्मण उकञ्?। , ५।१।१०२

बाल-मनोरमा
कर्मण उकञ् १७४४, ५।१।१०२

कर्मण उकञ्। "चतुथ्र्यन्तात्प्रभवतीत्यर्थे" इति शेषः। कार्मुकमिति। उकञि टिलोपः।