पूर्वम्: ५।१।१०२
अनन्तरम्: ५।१।१०४
 
सूत्रम्
समयस्तदस्य प्राप्तम्॥ ५।१।१०३
काशिका-वृत्तिः
समयस् तदस्य प्राप्तम् ५।१।१०४

समयशब्दात् ततिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत्प्रथमासमर्थं प्राप्तं चेद् तद् भवति। समयः प्राप्तो ऽस्य सामयिकं कार्यम्। उपनतकालम् इत्यर्थः। समर्थविभक्तिनिर्देश उत्तरार्थः।
न्यासः
समयस्तदस्य प्राप्तम्?। , ५।१।१०३

अथ किमर्थं तदिति समर्थविभक्तिर्निर्दिश्यते; यावता समय इति निर्देशादेव सा दृश्यते? इत्यत्राह--"समर्थविभक्तिनिर्देश उत्तरार्थः" इति। "ऋतोरण्()" ५।१।१०४ इन्येवमादौ प्रथमासमर्थाद्यथा स्यादिति उत्तरार्थञ्च क्रियमाणोऽत्रापि विस्पष्टार्थो भविष्यतीत्यत्रैव कृतः; नोत्तरत्र॥
बाल-मनोरमा
समयस्तदस्य प्राप्तम् १७४५, ५।१।१०३

समयस्तदस्य। तदिति, प्राप्तमिति च सामान्ये नपुंसकम्। समयः प्राप्तोऽस्येत्यर्थे प्रथमान्तात्समयशब्दाट्ठञित्यर्थः। "त"दित्युत्तरार्थम्।