पूर्वम्: ५।१।१०५
अनन्तरम्: ५।१।१०७
 
सूत्रम्
कालाद्यत्॥ ५।१।१०६
काशिका-वृत्तिः
कालाद् यत् ५।१।१०७

कालशब्दात् यत् प्रत्ययो भवति तदस्य प्राप्तम् इत्यस्मिन् विषये। कालः प्राप्तो ऽस्य काल्यः तापः। काल्यं शीतम्।
न्यासः
कालाद्यत्?। , ५।१।१०६

बाल-मनोरमा
कालाद्यत् १७४७, ५।१।१०६

कालाद्यत्। तदस्य प्राप्तमित्येव। प्रतमान्तात्कालशब्दादस्य प्राप्त इत्यर्थे यदित्यर्थः। प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम्। कल्यमेव काल्यं वा।

तत्त्व-बोधिनी
कालाद्यत् १३४५, ५।१।१०६

काल्यं शीतमिति। "प्रत्यूषोऽहर्मुखं कल्य"मित्यमरः। तत्र प्रातःकाले काल्यशब्दस्य व्युत्पत्त्यन्तरं मृग्यम्।