पूर्वम्: ५।१।११३
अनन्तरम्: ५।१।११५
 
सूत्रम्
तेन तुल्यं क्रिया चेद्वतिः॥ ५।१।११४
काशिका-वृत्तिः
तेन तुल्यं क्रिया चेद् वतिः ५।१।११५

तेन इति तृतीयासमर्थात् तुल्यम् इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति, यत् तुल्यं क्रिया चेत् सा भवति। ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत्। राजवत्। क्रियाग्रहणम् किम्? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यो गोमान्।
लघु-सिद्धान्त-कौमुदी
तेन तुल्यं क्रिया चेद्वतिः ११५४, ५।१।११४

ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते। क्रिया चेदिति किम्? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः॥
न्यासः
तेन तुल्यं क्रिया चेद्वतिः। , ५।१।११४

"तुल्यम्()" इति। कर्मपदमेतत्(), क्रियाविशेषणत्वात्()। प्रतिपादितं हि प्राक्? क्रियाविशेषणानां कर्मत्वम्? "स्तोकान्तिकदूरर्थाकृच्छ्राणि क्तेन" २।१।३८ इति सूत्रे। "ब्राआहृणेन तुल्यं वत्र्तते ब्राआहृणवत्()" इति। का पुनरत्र क्रिया? ब्राआहृणेन तुल्यं वत्र्तते क्षत्रियादिगता अध्ययनादिका। ननु च तस्या ब्राआहृणनिष्ठयाऽध्ययनादिक्रिययैव तुल्यता। न च तां ब्राआहृणशब्द आह। किं तर्हि? जातिं द्रव्यं वा। न च ताभ्यां क्रियया तुल्यत्वम्(); स्वभावभेदात्()। यत्र हि किञ्चित् सामान्यम्(), कश्चिद्विशेषः, स विषयस्तुल्यतायाः इह त्वत्यन्तभेद एव? नैष दोषः; यद्यपि ब्राआहृणादिशब्दैः क्रिया नोच्यते, तथाप्यभिधेयसम्बन्धेन प्रतीयते, यथा--"गुडः" इत्युक्ते गुडेनानभिधीयमाना अपि माधुर्यादयः। तत्र ब्राआहृणादिशब्देन योऽर्थ उच्यते तेन तुल्यत्वं क्रियाया न सम्भवति। उच्यते चेदं वचनसामथ्र्यात्()। यासावभिधेयन ब्राआहृणेन क्रिया गम्यते तया तुलप्याता विज्ञास्यते। ननु च तृतीयासमर्थविभक्तिवाच्यया क्रिययैव प्रत्ययार्थक्रियायास्तुल्यता, तस्याश्च घञन्तोऽवकाशः--तैलपाकेन तुल्यो घृतपाक इत्यादि? नैषोऽस्त्यवकाशः; घात्वर्थो हि क्रिया, सा च पूर्वापरीभूता। अथ वा--असत्त्वभूता। न च तस्यां घञादयो भवन्ति, क्व तर्हि? तस्यैव धात्वर्थस्य धर्मे सिद्धतायामेव। घात्वर्थस्यापि घञादिस्थाया भिद्यते। तत्कथं घञादीनामर्थः क्रियेति शक्यते वक्तुम्()? न च तया घञादिवाच्यसिद्धतया द्रव्यगतायास्तुल्यता। न हि द्रव्यभूतेनासत्त्वभूतस्य वस्तुतुल्यतोपपद्यत इत्यतो नास्ति वचनस्यावकाशः। यदि तर्हि क्रिया घञादिभिर्नाभिधीयते--कर्तुं गमनम्(), भोक्तुं पाकः, करकस्य व्रजतीति "तुमुण्णवुलौ क्रियायं क्रियार्थायाम्()" (३।३।१०) इति तुमुण्ण्वुलौ न प्राप्नुतः? नैष दोषः; यदत्र प्रकृतिरूपं तस्य क्रियैवार्थ इति तदाश्रयौ तुमुण्ण्वुलौ भविष्यत इत्यलमतिप्रसङ्गेन॥
बाल-मनोरमा
तेन तुल्यं क्रिया चेद्वतिः १७५५, ५।१।११४

अथ बावकर्मार्था निरूप्यन्ते। तेन तुल्यं। तुल्यमिति क्रियेत्यस्य विशेषणम्। सामान्याभिप्रायं नपुंसकम्। तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात्। यत्तुल्यं सा चेत् क्रियेत्यर्थः। तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत्। ब्राआहृणवदधीते इति। अत्र "ब्राआहृणव"दित्युदाहरणम्। "ब्राआहृणेन तुल्यमधीते" इति विग्रहवाक्यम्। अत्र ब्राआहृणशब्देन ब्राआहृणकर्तृकाध्ययनं लक्ष्यते। ब्राआहृणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः। गुणतुल्ये इति। द्रव्यतुल्येऽपीति बोध्यम्। तेन "चैत्रेण तुल्यो धनी देवदत्तः" इत्यादौ न भवति। "अयमेवं न तद्व"दित्यादौ वतेः साधुत्वार्थम् आहेति क्रियापदं प्रयुञ्जते वृद्धाः।

तत्त्व-बोधिनी
तेन तुल्यं क्रिया चेद् बतिः १३५२, ५।१।११४

तेन तुल्यं क्रिया चेद् बतिः। "तुल्य"मिति सामान्ये नपुंसकम्। तृतीयान्तात्तुल्यमित्यर्थे वतिः स्याद्यत्तुल्यं क्रिया चेत्सा। ब्राआहृणेन तुल्यमिति। नन्वत्र "ब्राआहृणो यथा वर्तते तथा क्षत्रियादिकर्तृकाध्ययनं वर्तते" इति वाक्यार्थोऽसङ्गत इति चेत्। अत्राहुः----ब्राआहृणशब्दस्यत्कर्तृकाध्ययने लक्षणया वर्तते। "ब्राआहृणकर्तृकाध्ययनतुल्याध्ययनं वाक्यार्थः"इति न कोऽपि दोषः। गुणतुल्ये इति। उपलक्षणमिदम्। अक्रियातुल्य इत्यर्थः। एवं च "ब्राआहृणेन सदृशः क्षत्त्रियः"इत्यर्थे "ब्राआहृणवत् क्षत्त्रियः"इति प्रयोगोऽसाधुरेव [इति]। अतएव "पर्वतो वह्निमान्महानवसदि"ति वाक्ये "महानससदृशः पर्वतः"इत्यर्थे वतेरसाधुत्वं मत्वा तस्य वतेः साधुत्वरक्षमार्थं "पर्वतो वह्निमान्भवितुमर्हती"त्यादि क्रियापदं प्रयुज्यते वृद्धाः।