पूर्वम्: ५।१।११७
अनन्तरम्: ५।१।११९
 
सूत्रम्
तस्य भावस्त्वतलौ॥ ५।१।११८
काशिका-वृत्तिः
तस्य भावस् त्वतलौ ५।१।११९

तस्य इति षष्थीसमर्थाद् भावः इत्येतस्म्निन्नर्थे तवतलौ प्रत्ययौ भवतः। भवतो ऽस्मादभिधानप्रत्ययौ इति भावः। शब्दस्य प्रवृत्तिनिमित्तं भावशब्देन उच्यते। अश्वस्य भावः अश्वत्वम्, अश्वता। गोत्वम्, गोता।
लघु-सिद्धान्त-कौमुदी
तस्य भावस्त्वतलौ ११५६, ५।१।११८

प्रकृतिजन्यबोधे प्रकारो भावः। गोर्भावो गोत्वम्। गोता। त्वान्तं क्लीबम्॥
न्यासः
तस्य भावस्त्वतलौ। , ५।१।११८

भवतेरनेकार्थत्वाद्भवाशब्दोऽयमभिप्रायादिष्वनेकेषु वत्र्तते। तत्र न ज्ञायते-कोऽत्रार्तो भावशब्देन विवक्षितः? इत्यतस्तत्परिज्ञानार्थमाह--"भवतोऽस्मात्()" इति। यस्माद्गोत्रादेर्विशेषणत्वाद्विशेष्ये गवादौ गौरित्येवमादिकः शब्दो भवति, गोत्वाकारवती च बुद्धिस्तेन योऽर्थो गवादेः शब्दस्य प्रवृत्तनिमित्तं स भावशब्देनोच्यते। तथा चोक्तम्()--"यस्य गणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ" इति। गुण इति विशेषणमिहोच्यते, द्रव्यं विशेष्यम्()। यस्य विशेषणस्य भावाद्विद्यमानत्वाद्विशेष्ये शब्दस्य निवेशः प्रवृत्तिर्भवति, तदभिधाने त्वतलादयः प्रत्यायः भवन्ति। तत्? पनः शब्दानां प्रवृत्तिनिमित्तमनेकप्रकारम्(); जातिशब्दानां जातिः--अ()आत्वमिति, गुणशब्दानां गुणः--शुक्लत्वमिति, क्रियाशब्दानां क्रिया-पाचकत्वमिति। केचित्तु क्रियाकारकसम्बन्धं क्रियाशब्दानां प्रवृत्तिनिमित्तमिच्छन्ति। यदृच्छाशब्दानां संज्ञासंज्ञिसम्बन्धित्वमिति संक्षेपेणैतदुक्तम्()। विस्तरेण तु भाष्यादावुक्तमिति तत एवानुगन्तव्यम्()। अथ नानात्वमित्यादौ कथं प्रत्ययो भवति? कथङ्कारं न भवितव्यम्()? षष्ठीसमर्थात् प्रत्ययविधानात्(), नानेत्येवमादीनाञ्चाव्ययानां षष्ठ()र्थेनायोगात्(), अयोगास्तु तेषामसत्त्ववाचित्वात्()? नैष दोषः; ससत्त्वभूतोऽप्यर्थः शब्दान्तरेण प्रत्यवमृष्टः षष्ठ()रेथेन प्रयुज्यते--नानेत्यस्य भाव इति। तञ्च प्रत्यवमृष्टार्थं वृत्तिरेव गमयतीति नानुपपन्ना षष्टीसमर्थता॥
बाल-मनोरमा
तस्य भावस्त्वतलौ १७५८, ५।१।११८

तस्य भावः। षष्ठ()न्ताद्भाव इत्यर्थे त्वतलौ स्त इत्यर्थः। भावशब्दस्य अभिप्रायादावपि वृत्तेराह--प्रकारो भाव इति। त्वतल्प्रत्ययौ यत उत्पत्सेयेते तस्मात्प्रकृतिभूतशब्दाद्()व्यक्तिबोधे जायमाने यज्जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणं भावशब्देन विवक्षितमित्यर्थः। यथा-गोशब्दाद्धि व्यक्तिबोधे जायमाने गोत्वं विशेषणत्वेन भासते, गोशब्दस्य गोत्ववतीषु व्यक्तिषु, गोत्वे च शक्तिग्रहणात्। न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः। सम्भवति अतीतानागतानां वर्तमानानां चाऽनन्तत्वेन युगपदुपस्थित्यसम्भवाद्गोशब्दात् प्राणित्वपशुत्वादिरूपेणाऽपि गोव्यक्तिप्रतीत्यापत्तेश्च। ततश्च सर्वासु गोव्यक्तिष्वनुगतं तदितरव्यक्तिभ्यो व्यावृत्तं कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः। एवं घटादिशब्दा अपि घटत्वादित्तद्धर्मं पुरस्कृत्य प्रवर्तन्ते। तदिदं शब्दप्रवृत्तिनिमित्तं बोधः। त्वान्तं क्लीबं तलन्तं स्त्रियामिति। लिङ्गानुशासनसूत्रसिद्धमिदम्।

तत्त्व-बोधिनी
तस्य भावस्त्वतलौ १३५५, ५।१।११८

तस्य भावस्त्वतलौ। प्रकृतीति। न तु यः कश्चिद्धर्मः, घटत्वमित्यत्र द्रव्यत्वपृथिवीत्वादेरभानात्। गोर्भाव इति। इह गोशब्दोऽर्थपरः, शब्दस्वरूपपरो वेति पञ्चद्वयम्। यदाऽर्थपरस्तदा धर्मविशेषः प्रत्ययार्थः, स च धर्मत्वेनैव भासते। "प्रकृतिजन्ये"त्यादिस्तु प्रयोगोपाधिः। यदा तु शब्दपरस्तदा तज्जन्यबोधप्रकारः प्रत्ययर्थः। स च धर्मविशेष एव। "पाचकत्व"मित्यत्र तु कर्तृत्वरूपसंबन्धः प्रकारः। "पच्यमानत्व"मित्यत्र तु कर्मत्वरूपसंबन्धः। तथा "औपगवत्व"मित्यत्र जन्यत्वरूपसंबन्धः प्रकारः। "राजपुरुषत्व"मित्यत्र तु स्वरूपसंबन्ध इत्याद्यह्रम्। एवं स्थिते हरिटीकायां यदुक्तं "कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति, तत्र नाऽपूर्वं शक्त्यन्तरं कल्प्यम्। उक्तरीत्यैव तत्राप्युपपत्तेरिति संक्षेपः।