पूर्वम्: ५।१।११८
अनन्तरम्: ५।१।१२०
 
सूत्रम्
आ च त्वात्॥ ५।१।११९
काशिका-वृत्तिः
आ च त्वात् ५।१।१२०

ब्रह्मणस् त्वः ५।१।१३५ इति वक्ष्यति। आ एतस्मात् त्वसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ। वक्ष्यति पृथ्वादिभ्य इमनिज् वा ५।१।१२१ इति। प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता। म्रदिमा, मार्दवम्, मृदुत्वम्, मृदुता। अपवादैः सह समावेशार्थं वचनम्। कर्मणि च विधानार्थं गुणवचनब्राह्मणादिभ्यः कर्मणि च ५।१।१२३ इति। चकारो नञ्स्नञ्भ्याम् अपि समावेशार्थः। स्त्रियाः भावः स्त्रैणम्, स्त्रीत्वम्, स्त्रीता। पुंसो भावः पुंस्त्वम्, पुंस्ता, पौंस्नम्।
लघु-सिद्धान्त-कौमुदी
आ च त्वात् ११५७, ५।१।११९

ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते। अपवादैः सह समावेशार्थमिदम्। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः - स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पौस्नम्। पुंस्त्वम्। पुंस्ता॥
न्यासः
आ च त्वात्?। , ५।१।११९

"प्रथिमा" इति। "तुरिष्टेमेयस्सु" ६।४।१५४ इति, "टेः" ६।४।१५५ इति टिलोपः। "र ऋतोहलादेर्लघोः" ६।४।१६१ इति ऋकारस्य रेफः, "सर्वनामस्थाने चासम्बुद्धौ" ६।४।८ इति दीर्घः। "पार्थवम्()" इति। "इगन्ताच्च लघुपूर्वात्()" ५।१।१३० इत्यण्()। "अपवादैः" इत्यादि। इमनिच्प्रभृतीनपवादस्त्वितलोर्वक्ष्यति, तैः सह तयोः समावेशः। एकविषयता यथा स्यादित्येवमर्थमिदम्()। ननु च स्वरितत्वादनुवत्र्तमानावनुवृत्तिसामथ्र्यादेवापवादविषयेऽपि भविष्यतः? नैतदस्ति; अस्ति ह्रनुवृत्तेः प्रयोजनम्(), किंम्()? "गुणवचनब्राआहृणादिभ्यः कर्मणि च" ५।१।१२३ इति कर्मण्यपि यथा स्याताम्(); इतरथा हि भावे विधीयमानौ कर्मणि न स्याताम्()। "कर्मणि च" इत्यादि। ननु चानुवृत्तिसामथ्र्यादेव कर्मण्यपि भविष्यतः? नैतदस्ति; अस्ति ह्रन्यदनुवृत्तेः प्रयोजनम्(), किम्()? अपवादविषयेऽपि यथा स्याताम्()। त()स्मसत्वसति न स्याताम्(), अ()स्मस्तु सत्येतदुभयमपि लभ्यते। "चकारः" इत्यादि। यदि चकारो न क्रियेत ततोऽत्रैव प्रकरणे येऽपवादास्तैरेव समावेशः स्यात्(), न नञ्स्नञ्भ्याम्(); तयोरन्यतर विहितत्वात्()। चकारे त्वपवादसमुच्चयार्थे सति सर्वापवादविषये त्वतलौ लभ्येते। तेन स्त्रीपुंसाभ्यामपि सिद्धौ भवतः। यद्येवम्(), अन्येष्वर्थेषु सावकाशौ नञ्स्नञौ भावे न सिध्यतः, त्वल्लभ्यां बाध्यमानत्वात्()? नैषः दोषः; "भवनात्()" इत्यवध्युपादानसामथ्र्याद्भावेऽपि भविष्यतः; इतरथा हि भावमेव विधित्वेनोपाददीत॥
बाल-मनोरमा
आ च त्वात् १७५९, ५।१।११९

आच त्वात्। त्वलावित्यनुवर्तते। आड्भर्यादायाम्। तदाह--ब्राहृणस्त्व इत्तः प्रागिति। ननु "तस्य भावस्त्वतलौ" इत्यतस्त्वतलोरुत्तरसूत्रेष्वनुवृत्त्यैव सिद्धेरधिकारोऽयं व्यर्थ इत्यत-आह--अपवादैरिति। "पृथ्वादिभ्यः इमनिज्वा" इत्यादिविहितैरिमनिजादिभिरपवादैः समुच्चायार्थमित्यर्थः। असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात्। प्रत्यक्षनिर्दिष्टैरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात्। अन्यथा "प्राग्दीव्यतोऽ"णित्यधिकृतस्य अणः "अत इ" ञित्यादावपि प्रवृत्तिः स्यादिति भावः। प्रयोजनान्तरमाह--गुणवचनादिभ्य इति। अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यञा बाधप्रसङ्ग इति भावः। नन्वेवमपि "आ त्वा"दित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थ इत्यत आह--चकार इति। अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम्, अन्यत्र तयोः सावकाशत्वादिति भावः। पौंस्नमिति। संयोगान्तलोपे पुमः खय्यम्परे" इति रुत्वम्। पाक्षिकावनुनासिकानुस्वारौ। विसर्गे कृतं सत्वम्। एवं पुंस्त्वम्। तत्र "ह्यस्वात्तादौ" इति षत्वं न भवति, सवनादिषु पाठात्।

तत्त्व-बोधिनी
आ च त्वात् १३५६, ५।१।११९

अपवादैः सहेति। "पृथ्वादिभ्य इमनिज्वे"त्यादिभिः। चकार इति। अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम्, अन्यत्क तयोः सावकाशत्वादिति भावः। पौस्नं पुंस्त्वमिति। संयोगान्तलोपे "पुमः खयी"ति रुत्वम्। पाक्षिकावनुनासिकानुस्वारौ। विसर्गे कृते सत्वम्।