पूर्वम्: ५।१।११९
अनन्तरम्: ५।१।१२१
 
सूत्रम्
न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः॥ ५।१।१२०
काशिका-वृत्तिः
न नञ्पूर्वात् तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः ५।१।१२१

इत उत्तरे ये भाव। प्रत्ययाः, ते नञ्पूर्वात् तत्पुरुषात् न भवन्ति चतुरादीन् वर्जयित्वा। वक्ष्यति पत्यन्तपुरोहितादिभ्यो यक् ५।१।१२७ इति। अपतित्वम्, अपतिता। अपटुत्वम्, अपटुता। अरमणीयत्वम्, अरमणीयता। नञ्पूर्वातिति किम्? बार्हस्पत्यम्। प्राजापत्यम्। तत्पुरुषातिति किम्? न अस्य पटवः सन्ति इति अपटुः, तस्य भावः आपटवम्। आलघवम्। अचतुरादिभ्यः इति किम्? आचतुर्यम्। आसङ्गत्यम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आकत्यम्। आरस्यम्। आलस्यम्।
न्यासः
न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः। , ५।१।१२०

अधिकारोऽयम्()। तेनोत्तरेषां भावप्रत्ययानां प्रतिषेधो विज्ञायते; न त्वतलोरिति मत्वाऽ‌ऽ-"इत उत्तरे ये भावप्रत्ययाः" इत्यादि। न तु "पृथ्वादिभ्य इमनिज्वा" ५।१।१२१ इत्येवमादिंभिर्योगैः परिगणिताभ्य एव प्रकृतिभ्यः प्रत्ययो विधीयते। न च तत्र काचित्? प्रकृतिर्नञ्पूर्वा गृह्रते, न च तदन्तविधिरस्ति; ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्()। तस्मात् तत्र नञ्पूर्वात्? प्राप्तिर्नास्तीति नास्त्यस्योपयोगः? सत्यम्(); यत्र त्वन्तग्रहण्()--"पत्यन्तपुरोहितादिभ्यो यक्()" ५।१।१२७ इत्येवमादिषु योगेष्वस्ति, यत्र च स्वरूपग्रहणं नास्ति "योपधाद्गुरूपोत्तमाद्वुञ्()" ५।१।१३१ इत्येवमादिषु, तत्र नञ्पूर्वादपि प्राप्तिरस्तीति प्रतिषेधः क्रियते। "अपतित्वम्()" इति। नञ्समासे कृत उत्तरकालं पत्यन्तादभावविवक्षायां "पत्यन्त" ५।१।१२७ इत्यादिना यग्न भवति। "अपटुत्वम्()" इति। "इगन्त" (५।१।१३१) इत्यण्? न भवति। "अरमणीयत्वम्()" इति। "योपदात्()" (५।१।१३२) इत्यादिना वुञ्? न भवति। नास्य पटवः सन्तीत्यपटुरिति बहुव्रीहिरयम्(), तेनास्मादिगन्तलक्षणोऽण्? भवति--"आपटवम्" इति। "आचतुर्यम्()" इति। ब्राआहृणादित्वात्? ष्यञ्()। ननु च नञ्समासा ब्राआहृणादिषु न षठ()न्ते, तत्कुतस्तेन ष्यञ्()? नैष दोषः; आ कृतिगणो हि ब्राआहृणादिरिष्यते। अचतुरादिप्रतिषेध एवाकृतिग्रहणस्य ज्ञापकम्॥
बाल-मनोरमा
न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटयुधकतरसलसेभ्यः १७६०, ५।१।१२०

न नञ्पूर्वात्। इतः परमिति। त्वतल्विधेरूध्र्वमित्यर्थः, नञ्पूर्वादित्युत्तरस्य प्रतिषेध इति भाष्यादिति। भावः। चतुरादीनिति। चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस,--एतान्वर्जयित्वेत्यर्थः। अपतित्वमिति। इह"पत्यन्तपुरोहितादिभ्यः" इति यक्न भवति। अपटुत्वमिति। इह"इगन्ताच्च लघुपूर्वा"दित्यण्न भवति। बार्हस्पत्यमिति। "पत्यन्तपुरोहितादिभ्यः" इति यक्। आपटवमिति। "इगन्ताच्च लघुपूर्वा"दित्यण्। अपटुशब्दस्य बहुव्रीहित्त्वात्तत्पुरुषत्वाऽभावान्नास्याऽणो निषेध इति भावः। आचतुर्यमिति। अचतुरस्य भावः। ब्राआहृणादित्वात्ष्यञ्। आसंगत्यमिति। असङ्गतशब्दात्ष्यञ्। आलवण्यमिति। अलवणशब्दात्ष्यञ्। आवट()मिति। न वटः अवटः, तस्मात्ष्यञ्। आयुध्यमिति। आयुधशब्दात्ष्यञ्। आकत्यमिति। अकतशब्दात्ष्यञ्। आरस्यमिति। अरसशब्दात्ष्यञ्। आलस्यमिति। लसतीति लसः। न लसः अलसः। तस्मात्ष्यञ्।

तत्त्व-बोधिनी
न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलबणवटयुधकतरसलसेभ्यः १३५७, ५।१।१२०

अपतित्वमिति। इह "पत्यन्ये "ति यग् न भवति। अपटुत्वमिति। इह तु "इगन्ताच्च लघुपूर्वा"दित्यण् न भवति। आचतुर्यमित्यादि। ब्राआहृणादित्वात् ष्यञ्।