पूर्वम्: ५।१।१२०
अनन्तरम्: ५।१।१२२
 
सूत्रम्
पृथ्वादिभ्य इमनिज्वा॥ ५।१।१२१
काशिका-वृत्तिः
पृथ्वादिभ्य इमनिज् वा ५।१।१२२

पृथु इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः इमनिच् प्रत्ययो भवति वा तस्य भावः इत्येतस्मिन्नर्थे। वावचनम् अणादेः समावेशार्थम्। पृथोर् भावः प्रथिमा, पार्थवम्। म्रदिमा, मार्दवम्। तुरिष्ठैमैइयःसु ६।४।१५४, टेः ६।४।१५५ इति टिलोपः। र ऋतो हलदेर् लघोः ६।४।१६१ इति रेफादेशः। त्वतलौ सर्वत्र भवत एव। पृथुत्वम्, पृथुता। मृदुत्वम्, मुदुता। पृथु। मृदु। महत्। पटु। तनु। ल्घु। बहु। साधु। वेणु। आशु। बहुल। गुरु। दण्ड। ऊरु। खण्ड। चण्ड। बाल। अकिंचन। होड। पाक। वत्स। मन्द। स्वादु। ह्रस्व। दीर्घ। प्रिय। वृष। ऋजु। क्षिप्र। क्षुप्र। क्षुद्र। पृथ्वादिः।
लघु-सिद्धान्त-कौमुदी
पृथ्वादिभ्य इमनिज्वा ११५८, ५।१।१२१

वावचनमणादिसमावेशार्थम्॥
न्यासः
पृथ्वादिभ्य इमनिज्वा। , ५।१।१२१

पृथ्वादिषु य इगन्ता लघुपूर्वाः पृथुमृदुप्रभृतयः, तेषामणि प्राप्ते; ये गुणशब्दाः खण्ड चण्ड--इत्येवमादयः, तेषां ष्यञि; ये वयोवचनाः--बाल वत्स--इत्येवमादयः, तेषां "प्राणभृज्जाति" ५।१।१२८ इत्यादिनाञि सर्वेषामपवाद इमनिज्विधीयते। "वावचनम्()" इत्यादि। आदिशब्देनष्यञादीनामुपसंग्रहः। वाक्यार्थं तु वावचनं न भवति; महाविभाषयैव वाक्यस्य सिद्धत्वात्॥
बाल-मनोरमा
पृथ्वादिभ्य इमनिज्वा १७६१, ५।१।१२१

पृथ्वादिभ्य। तस्य भाव इत्यनुवर्तते। पृथ्वादिभ्यः षष्ठ()न्तेभ्यो भावे इमनिज्वा स्यादित्यर्थः। ननु वाग्रहणं व्यर्थं, "समर्थानां प्रथमाद्रे"ति महाविभाषयैव वाक्यस्य सिद्धत्वात्। नच इमनिजभावेत्वतल्प्रत्ययर्थां वाग्रहणमिति वाच्यम्, "आ च त्वा"दित्येव तत्समावेशसिद्धेरित्यत आह--वपावचनमणादिसभावेशार्थमिति। पृथुमृदुप्रभृतिषु "इगन्ताच्च लघुपूर्वा"दित्यणः, चण्डखण्डादिषु गुणवचनलक्षणष्यञः, बालवत्सादिषु वयोवचनलक्षणस्य अञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः। अन्यथा महाविबाषावशादपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते इति "पारे मध्ये षष्ठ()आ वे"ति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्त्वतलाभभावे तेषां प्रवृत्तिर्न स्यादिति भावः।

तत्त्व-बोधिनी
पृथ्वादिभ्य इमनिज्वा १३५८, ५।१।१२१

पृथ्वादिभ्यः। अणादीति। इगन्तलघुपूर्वेषु पृथुमृदुप्रभृतिष्वणः समावेशः। चण्डखण्डादिषु गुणवचनेषु ष्यञः। बालत्सादिषु वयोवचनलक्षणस्याऽञ इति बोध्यम्। त्वतलौ तु पूर्वसूत्रेणैव लब्धौ।