पूर्वम्: ५।१।१२२
अनन्तरम्: ५।१।१२४
 
सूत्रम्
गुणवचनब्राह्मणादिभ्यः कर्मणि च॥ ५।१।१२३
काशिका-वृत्तिः
गुणवचनब्राह्मणादिभ्यः कर्मणि च ५।१।१२४

गुणम् उक्तवन्तो गुणवचनाः। गुणवचनेध्यो ब्राह्मणादिभ्यश्च तस्य इति षष्थीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ् प्रत्ययो भवति। चकाराद् भावे च। कर्मशब्दः क्रियावचनः। जडस्य भावः कर्म वा जाड्यम्। ब्राह्मणादिभ्यः खल्वपि ब्राह्मण्यम्। माणव्यम्। आपादपरिसमाप्तेर् भावकर्माधिकारः। ब्राह्मणादिराकृतिगणः। आदिशब्दः प्रकारवचनः। चतुर्वर्ण्यादिभ्यः स्वार्थे उपसङ्ख्यानम्। चत्वार एव वर्णाः चातुर्वर्ण्यम्। चातुराश्रम्यम्। त्रैलोक्यम्। त्रैस्वर्यम्। षाड्गुण्यम्। सैन्यम्। सान्निध्यम्। सामीप्यम्। औपम्यम्। सौख्यम्। ब्राह्मण। वाडव। माणव। चोर। मूक। आराधय। विराधय। अपराधय। उपराधय। एकभाव। द्विभाव। त्रिभाव। अन्यभाव। समस्थ। विषमस्थ। परमस्थ। मध्यमस्थ। अनीश्वर। कुशल। कपि। चपल। अक्षेत्रज्ञ। निपुण। अर्हतो नुम् च आर्हन्त्यम्। संवादिन्। संवेशिन्। बहुभाषिन्। बालिश। दुष्पुरुष। कापुरुष। दायाद्। विशसि। धूर्त। राजन्। संभाषिन्। शीर्षपातिन्। अधिपति। अलस। पिशाच। पिशुन। विशाल। गणपति। धनपति। नरपति। गडुल। निव। निधान। विष। सर्ववेदादिभ्यः स्वार्थे। चतुर्वेदस्य उभयपदवृद्धिश्च। चातुर्वैद्यम्। इति ब्राह्मणादिः।
लघु-सिद्धान्त-कौमुदी
गुणवचनब्राह्मणादिभ्यः कर्मणि च ११६३, ५।१।१२३

चाद्भावे। जडस्य भावः कर्म वा जाड्यम्। मूढस्य भावः कर्म वा मौढ्यम्। ब्राह्मण्यम्। आकृतिगणोऽयम्॥
न्यासः
गुणवचनब्राआहृणादिभ्यः कर्मणि च। , ५।१।१२३

"तस्येदम्()" ४।३।१२० इति शैषिकेषु प्राप्तेषु कर्मणि ष्यञ्विधानम्(), चकारद्भावे च। "कर्मशब्दः क्रियावचनः" इत। साधनकर्मवचनशङ्कामपाकरोति। ये हि जडादिशब्दाः गुणशब्दाः, गुमवचनाः, ब्राआहृणादयश्च तेषां साधनकर्मणा सम्बन्दो न सम्भवति; क्रियावाचकत्वाभावात्()। तस्मात्? क्रियाशब्द एव कर्मशब्दः। "ब्राआहृणादिराकृतिगणः" इति। अवृत्कृतत्वात्()। "आदिशब्दः प्रकारे" ["प्रकारवचनः"--काशिका, पदमञ्जरी च] इति। एवं प्रकारेभ्यः ष्यञ्? भवतीत्येवमर्थमादिशब्दः प्रकरवचनत्वं बोधयति। यद्येवम्(), गुणवचनग्रहणं प्रातिपदिकेषु च ब्राआहृणादीनामनुक्रमणमनर्थकं स्यात्()? नानर्थकम्(); प्रपञ्चार्थ हि तत्? स्वार्थे विधानार्थञ्च। तत्र ब्राआहृणशब्दात्? "प्राणभृज्जाति" ५।१।१२८ इति जातिवचनत्वादञि प्राप्ते तद्बाधनार्थं ष्यञ्विधीयते। माणववाडवाभ्यां गोत्रलक्षणे वुञि। "अर्हतो नुम्? च" इति। अस्य नुमर्थः पाठः--अर्हन्त्यम्()। चोरधूत्र्ताभ्यां मनोज्ञादित्वाद्()वुञि प्राप्ते। आराधय, विराधय, अपराधय--इत्येतेभ्योऽपत्यविवक्षायां "जनपदशब्दात्? क्षत्रियादञ्()" ४।१।१६६, तस्य "कम्बोजाल्लुक्()" ४।१।१७३ इति लुक्()। ततो गोत्रवुञि प्राप्ते पाठः। एकभवादीनामन्यभावपर्यन्तानां स्वार्थे विधानार्थम्। अक्षेत्रज्ञशब्दस्य " नञ्पूर्वात्()" ५।१।१२० इति प्रतिषेधे प्राप्ते। प्राग्बालिशशब्दात्? कुशलादीनां युदादित्वादणि प्राप्ते। बालिशशब्दो वयोवचनः, तस्माद्वयोलक्षणेऽञि प्राप्ते। अनी()आरशब्दस्य "न नञ्पूर्वात्()" ५।१।१२० इति प्रतिषेधे प्राप्ते। "अलस" इति बहुव्रीहिः ष्यञमुत्पादयति, तत्पुरुषात्तु, "न नञ्पूर्वात्()" ५।१।१२० इति प्रतिषेधेन भवितव्यम्(); तस्य प्रपञ्चार्थः पाठः। राजन्()शब्दस्य पुरोहितदित्वाद्यकि प्राप्ते। "संवादिन्()" "संवेशिन्()", "बहुभाषिन्(), "शीर्षधातिन्()", "सयस्थ", "परमस्थ", "दुष्पुरुष"--इत्येवमादीनां नञ्पूर्वार्थः पाठः। "गणपति", "अधिपति"--इत्येतयोः पत्यन्तलक्षणे यकि प्राप्ते। "गडुल", "दायाद", "विशस्ति"--इत्येतेषां त्वतलोर्निवृत्त्यर्थः। शेषाणां प्रपञ्चार्थः। गुणवचना एके राशिः, ब्राआहृणादयो द्वितीयः, ताभ्यां भावे कर्मणि यथासंख्यं प्राप्नोति, तत्? कस्मान्न भवति? ब्राहृणादिशब्दस्याल्पाच्तरस्य परनिपातात्()। स हि लक्षणे निरपेक्षतां निर्देशस्य ज्ञापयन्? यथासंक्यलक्षणानपेक्षतामपि बोधयति, तेन यथासंख्यं न भवति॥
बाल-मनोरमा
गुणवचनब्राआहृणादिभ्यः कर्मणि च १७६५, ५।१।१२३

गुणवचन। गुणोपसर्जनद्रव्यवाचिभ्यो, ब्राआहृणादिभ्यश्च षष्ठ()न्तेभ्यो भावे कर्मणि च अर्थे ष्यञित्यर्थः।

अर्हतो नुम्चेति। वार्तिकमिदम्। "अर्हः प्रशंसाया"मिति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः। अर्हच्छब्दात्ष्यञ्स्यात्प्रकृतेर्नुम्चेत्यर्थः। मित्त्वादन्त्यादचः परः। अनुस्वारपरसवर्णौ। लोकान्नपुंसकत्वं स्त्रीत्वं च। तदाह--आर्हन्त्यम्, आर्हन्तीति। आर्हन्त्यशब्दान्ङीषि "हलस्तद्धितस्ये"ति यलोपः। यथातथेति निपातसमुदायः। यथापुरमिति पुराशब्देन पदार्थनतिवृत्तावव्ययीभावः। इमौ शब्दौ नञ्पूर्वपदौ ब्राआहृणादी।

तत्त्व-बोधिनी
गुणवचनब्राआहृणादिभ्यः कर्मणि च १३६१, ५।१।१२३

गुणवचन। ष्यञनुवर्तते, कर्म क्रिया कार्यं च। "शरीरायासमात्रसाध्यं शौचादि क्रिया। शास्त्रेण विहितो यागादिः कार्य"मिति तयोर्भेदमाहुः।

अर्हतो नुम् च। अर्हत इति। "अर्हः प्रशंसाया"मिति शत्रन्तोऽर्हच्छब्दः पूजार्थाभिधायीति कैयटः। आकृतिगण इति। केषांचित्पाठस्तु कार्यान्तराय। तथा हि "अर्हतो नुम् चे"ति नुमर्थः पाठः। एकभावः, त्रिभावः, अन्यभावः,---एषां पाठः स्वार्थे विधानार्थः। तथा च प्रत्याहाराह्निके वार्तिकप्रयोगः---"आन्यभाव्यं तु कालशब्दव्यावाया"दिति। अन्यभाव एव आन्यभाव्यम्। अन्यत्वमित्यर्थः। यत्तु व्याकरणाधिकरणे भट्टपादैरुक्तम् "आन्यभाव्यमपप्रयोगः"इति, तत्त्ववैयाकरण मीमांसकसंतोषार्थमित्यवधेयम्। सर्ववेद इति। "पूर्वकालैके"ति समासः।

चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम्। चतुर्वेद इति। तद्धितार्थे द्विगुः। "द्विगोर्सुगनपत्ये"इत्यणो लुक्। चतुर्विद्य इति। "विद्यालक्षणसूत्रान्ता"दिति ठक्। तस्य लुक्।