पूर्वम्: ५।१।१२३
अनन्तरम्: ५।१।१२५
 
सूत्रम्
स्तेनाद्यन्नलोपश्च॥ ५।१।१२४
काशिका-वृत्तिः
स्तोनाद् यन् नलोपश् च ५।१।१२५

स्तोनशब्दात् षष्ठीसमर्थाद् भावकर्मणोः यत् प्रत्ययो भवति, नशब्दस्य लोपश्च भवति। स्तोनस्य भावः कर्म वा स्तोयम्। स्तोनातिति केचिद् योगविभागं कुर्वन्ति। स्तोनात् ष्यञ् भवति। स्तौन्यम्। ततो यन् नलोपश्च। स्तोयम्।
न्यासः
स्तेनाद्यन्नलोपश्च। , ५।१।१२४

बाल-मनोरमा
स्तेनाद्यन्नलोपश्च १७६७, ५।१।१२४

स्तेनाद्यन्नलोपश्च। "य"दिति च्छेदः। स्तेनशब्दात्षष्ठ()न्ताद्भावे कर्मणि चार्थे यत्स्यादित्यर्थः। नेति सङ्घातग्रहणमिति। "नलोपश्चे"त्यत्र नेत्यकार उच्चारणार्थो न भवति, किंतु नकाराऽकारसङ्गातग्रहणमित्यर्थः। स्तेयमिति। स्तेनशब्दाद्यत्प्रत्यये सति नेति सङ्गातस्य लोप इति भावः। नच नकारमात्रलोपेऽपि "यस्येति चे"त्यकारलोपात्स्तेयमिति सिध्यतीति वाच्यम्, "अचः परस्मि"न्नित्यकारलोपस्य स्थानित्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात्। नच सङ्गातग्रहणेऽपि "अलो।ञन्त्यस्ये"त्यकारस्यैव लौपः स्यादिति शङ्क्यं, "यस्येति चे"त्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयथ्र्यात्, "नानर्थकेऽलोऽन्त्यविधि"रिति निषेधाच्च। योगं विभज्येति। स्तेनादिति पृथक्सूत्रम्। ष्यञित्यनुवर्तते। स्तेन शब्दाद्भावे कर्मणि च ष्यञित्यर्थः। समासकृदन्ततद्धितान्ताऽव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति आकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाऽभावादप्राप्ताविदं वचनम्। अव्युत्पन्नप्रतिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थं वचनम्। ततो "यन्नवलोपश्चे"ति योगान्तरम्। स्तेनादित्यनुवृत्तावुक्तोऽर्थः। केचिदिति। भाष्याऽदृष्टवाद्योगविभागोऽयप्रमाणिक इति भावः।

तत्त्व-बोधिनी
स्तेनाद्यन्नलोपश्च १३६२, ५।१।१२४

सङ्घातग्रहणमिति। वर्णग्रहणे तु "यस्येति चे"त्यकारलोपे सतीष्टं न सिध्यति, "अचः परस्मि"न्नित्यल्लोपस्य स्थानिवद्भावादयादेशप्रसङ्गादिति भावः। ननु सङ्घातग्रहणेऽपि "अलोऽन्त्यस्ये"त्यकारस्यैव लोपः स्यान्न तु सङ्घातस्येति चेत्। मैवम्। आरम्भसामथ्र्यात्, "नानर्थकेऽलोन्त्यविधि"रिति निषेधाद्वा तत्सिद्धेः।