पूर्वम्: ५।१।१२६
अनन्तरम्: ५।१।१२८
 
सूत्रम्
पत्यन्तपुरोहितादिभ्यो यक्॥ ५।१।१२७
काशिका-वृत्तिः
पत्यन्तपुरोहितादिभ्यो यक् ५।१।१२८

पत्यन्तात् प्रातिपदिकात् पुरोहितादिभ्यश्च यक् प्रत्ययो भवति भावकर्मणोरर्थयोः। सेनापतेः भावः कर्म वा सैनापत्यम्। गार्हपत्यम्। प्राजापत्यम्। पौरोहित्यम्। राज्यम्। पुरोहित। राजन्। संग्रामिक। एषिक। वर्मित। खण्डिक। दण्डिक। छत्रिक। मिलिक। पिण्डिक। बाल। मन्द। स्तनिक। चूडितिक। कृषिक। पूतिक। पत्रिक। प्रतिक। अजानिक। सलनिक। सूचिक। शाक्वर। सूचक। पक्षिक। सारथिक। जलिक। सूतिक। अञ्जलिक। राजासे। पुरोहितादिः।
लघु-सिद्धान्त-कौमुदी
पत्यन्तपुरोहितादिभ्यो यक् ११६६, ५।१।१२७

सैनापत्यम्। पौरोहित्यम्॥
लघु-सिद्धान्त-कौमुदी
इति त्वतलोरधिकारः ११ ११६६, ५।१।१२७

लघु-सिद्धान्त-कौमुदी
अथ भवनाद्यर्थकाः ११६६, ५।१।१२७

न्यासः
पत्यन्तपुरुहितादिभ्यो यक्?। , ५।१।१२७

पत्यन्तात्? पूर्ववदणि प्राप्ते, पुरोहितादिषु राजशब्दराद्ब्राआहृणादिपाठात्? ष्यञि, शेषेब्यस्त्वतलोर्यग्विधीयते। "राजासे" इति। राजशब्दादसे=असमासे यग्भवति--राज्यमिति। समासे तु ब्राआहृणादित्वात्? ष्यञेव भवति--आधिराज्यमिति। ननु च केवलो राजशब्दो ब्राआहृणादिषु पठ()ते, तेत्कथमधिराजशब्दात्()? तदन्तविधिना; एतदेव ज्ञापकमस इति वचने--अस्तौहि प्रकरणे राजशब्देन तदन्तविधिरिति। इह पत्यन्तपुरोहितादी इति द्वौ राशी, अर्थावपि भावकर्मणी द्वावेवेति साम्याद्यथासंख्यं प्राप्नोति; तदस्वरितत्वात्? पूर्ववन्न भवति॥
बाल-मनोरमा
पत्यन्तपुरोहितादिभ्यो यक् १७७०, ५।१।१२७

पत्यन्त। पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठ()न्तेभ्यो भावकर्मणोर्याक्स्यादित्यर्थः। राजासे इति। पुरोहितादिगणसूत्रमिदम्। राजा असे इति च्छेदः। "स" इति समासस्य प्राचां संज्ञा। तदाह--राजन्शब्द इति राज्यमिति। यकि टिलोपः। "ये चाऽभावकर्मणो"रिति प्रकृतिभावस्तु न, "अभावकर्मणो"रिति पर्युदासात्। समाऽसे त्विति। अदिको राजा अदिराजः। प्रादिसमासः। "असे" इति पर्युदासाद्यगभावे ब्राआहृणादित्वात्ष्यञि आधिराज्यमिति रूपमित्यर्थः। यक्ष्यञोः स्वरे विशेषः।