पूर्वम्: ५।१।१२७
अनन्तरम्: ५।१।१२९
 
सूत्रम्
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्॥ ५।१।१२८
काशिका-वृत्तिः
प्राणभृज्जातिवयोवचनौद्गात्रादिभ्यो ऽञ् ५।१।१२९

प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च अञ् प्रत्ययो भवति भावक्रमणोरर्थयोः। अश्वस्य भावः कर्म वा आश्वम्। औष्ट्रम्। वयोवचनेभ्यः कौमारम्। कैशोरम्। उद्गात्रादिभ्यः औद्गात्रम्। औन्नेत्रम्। उद्गातृ। उन्नेतृ। प्रतिहर्तृ। रथगणक। पक्षिगणक। सुष्ठु। दुष्ठु। अध्वर्यु। वधू। सुभग मन्त्रे। उद्गात्रादिः।
न्यासः
प्राणभृज्जातिवयोवचटनोद्रगात्रादिभ्योऽञ्?। , ५।१।१२८

प्राणबृतः प्राणिन उच्यन्ते, तेषां जातिः प्राणभृज्जातिरित्यर्थः। तद्वाचिनो यतासम्भवं त्वतलादिष्वञ्विधीयते। प्राणभृद्ग्रहणात्? तृणादिशब्देभ्यो न भवति-तृणत्वम्, तुणतेति। जातिग्रहणाद्देवदत्तादिशब्देभ्यो न भवति--देवदत्तत्वम्(), देवदत्तता। यदिगन्तं लघुपूर्वं च तस्मात्? परत्वादण्भवति। "तैत्तिरम्()" इति। वयोवचनादपि यथायोगं त्वतलादिष्वेव प्राप्तेष्वञ्विधानम्()। वचनग्रहणं स्वरूपविधिनिरासार्थम्(); अन्यथा वयःशब्दादेव स्यात्()। तत्रोद्गात्रादिषु "उद्गात्(), उन्नतृ, अध्वयुइत्येतेषामृत्विग्वचनात्? "होत्राभ्यश्छः" ५।१।१३४ इति च्छे प्राप्ते सत्यञर्थः पाठः। सुष्ठु, दुष्ठु, वधू--इत्येतेषां लघुपूर्वलक्षणेऽपि प्राप्ते। "सुभगमन्त्रे" इति। सुभगशब्दो मन्त्रविषयेऽञमुत्पादयति--महते सौभागाय। "सर्वे विधयश्छन्दसि विकल्प्यन्ते" (पु।प।वृ। ५६) इति। "ह्मद्भगसिन्ध्वन्त" ७।३।१९ इत्युत्तरपदवृद्धिर्न भवति। मन्त्र इति किम्()? सौभाग्यम्(), ब्राआहृणादित्वात्()। शेषणामिह पाठस्त्वतलोः प्राप्तयोः॥
बाल-मनोरमा
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् १७७१, ५।१।१२८

प्राणभृज्जाति। प्राणभृतः--प्राणिनः, तज्जातिवाचिभ्यो, वयोविशेषवाचिभ्य, उद्गात्रादिभ्यश्च षष्ठ()न्तेभ्यो भावकर्मणोरञित्यर्थः। प्राणभृज्जातीति। उदाहरणसूचनम्। एवं वयोवचनेति।

तत्त्व-बोधिनी
प्राणभृज्जकिवयोवचनोद्गात्रादिभ्योऽञ् १३६४, ५।१।१२८

प्राणभृज्जति। मुखनासासंचारी वायुः प्राणः। "प्राणिजाती"त्येव सुवचम्। प्राणभृदिति किम्()। तृणत्वम्। तृणता। जातीति किम्()। देवदत्तत्वम्। औद्गात्रमिति। उद्गात्रादिषु ये ऋत्विग्वचनास्तेभ्यो "होत्राभ्यश्छः"इति छे प्राप्ते अञ् विधीयते। सुष्ठु दुष्ठु-----द्वाभ्यां गुणलक्षणे ष्यञि प्राप्ते, वधूशब्दादिगन्तलक्षमेऽणि, शेषेभ्यस्त्बतलोः प्राप्तयोः। इह तु "सुभगं मन्तेर"इतिपट()ते। सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगे अञमुत्पादयतीत्यर्थः। "महते सौभगाय"। सर्वविधीनां छन्दसि वैकल्पिकत्वादिह "ह्मद्भगसिन्ध्वन्ते"इत्युत्तरपदवृद्धिर्न भवति। अतएव मन्तेरऽपि क्वचिदञ् न भवति। "सौभाग्यमस्यै दत्त्वाय"। इह ष्यञ्।