पूर्वम्: ५।१।१२८
अनन्तरम्: ५।१।१३०
 
सूत्रम्
हायनान्तयुवादिभ्योऽण्॥ ५।१।१२९
काशिका-वृत्तिः
हायनान्तयुवादिभ्यो ऽण् ५।१।१३०

हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभश्च अण् प्रत्ययो भवति भावकर्मणोरर्थयोः। द्विहायनस्य भावः कर्म ना द्वैहायनम्। त्रैहायनम्। युवादिभ्यः यौवनम् स्थाविरम्। श्रोत्रियस्य यलोपश्च वाच्यः। श्रोत्रियस्य भावः कर्म वा श्रौत्रम्। युवन्। स्थविर। होतृ। यजमान। कमण्डलु। पुरुषासे। सुहृत्। यातृ। श्रवण। कुस्त्री। सुस्त्रि। मुहृदय। सुभ्रातृ। वृषल। दुर्भ्रातृ। हृदयासे। क्षेत्रज्ञ। कृतक। परिव्राजक। कुशल। चपल। निपुण। पिशुन। सब्रह्मचारिन्। कुतूहल। अनृशंस। युवादिः।
न्यासः
हायनान्तयुवादिभ्योऽण्?। , ५।१।१२९

हायनान्तात्? त्वतलोः प्राप्तयोरण्विधानम्()। ननु च "तस्येदम्()" (४।३।१२०) इत्यनेन हायनान्तादण सिद्धः? न सिध्यति; परत्वात्? त्वतल्भ्यां बाध्यते--आषाढहायणस्य भावः कर्म वा आषाढहायण इति "वृद्धाच्छः" ४।२।११३ प्रसज्येत। तस्माद्युक्तं हायनान्तादण्विधानम्()। "यौवनम्()" इति। "अन्()" ६।४।१६७ इति प्रकृतिभावः। युवादिषु युवशब्दस्य वयोलक्षणं बधित्वा मनोज्ञादित्वाद्()वुञि प्राप्ते पाठः। स्थविरशब्दस्य वयोलक्षणेऽञि होतृशब्दस्याप्युद्गात्रादित्वादञेव। "पुरुषासे" इति। पुरुषशब्दादसमासेऽण्()। भवति--पौरुषम्()। अस इति किम्()? राजपुरुषत्वम्()। अस्य "प्राणभृज्जाति" ५।१।१२८ इत्यप्राप्ते पाठः। कमणाडलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतलोर्बाधनार्थः पाठः। "ह्मदयासे" इति। ह्मदयशब्दादसमासेऽण्? भवति। हाद्र्दम्(), "ह्मदयस्य ह्मल्लेखयदण्लासेषु" ६।३।४९ इति ह्मद्भावः। अस इति किम्()? ह्मदयशब्दादसमासेऽण्? भवति। हाद्र्दम्(),"ह्मदयस्य ह्मल्लेखयदण्लासेषु" ६।३।४९ इति ह्मद्भावः। अस इति किम्()? परमह्मदयत्वम्()। कुशलादीनां क्षेत्रज्ञपर्यन्तानां ब्राआहृणादित्वात्? ष्यञि प्राप्ते पाठः, शेषाणां तु त्वतलोः। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्? समासादण्प्राप्तिरेव नास्ति, तदपर्थकः "पुरुषासे", "ह्मदयासे" इति च प्रतिषेधः? नापार्थकः, एषा हि विषयसप्तमी--समासे चिकीर्षिते विषयभूत एव पुरुषशब्दह्मदयशब्दाविति। यदि प्रतिषेधो नोच्येत, ततो नञ्समासस्य भावप्रत्ययस्य चाणो युगपत्प्रसङ्गे परत्वादणेव स्यात्()। प्रतिषेधात्तु समास एव तावद्भवति। ततो यस्य भावप्रत्ययस्य निमित्तमस्ति स उत्पद्यते। कश्चासौ? त्वतलौ--अपुरुषत्वम्(), अपुरुषता; अह्मदयत्वम्(), अह्मदयता। इह हायनान्त एकरशिः, युवादिद्र्व#इतीयः; अर्थावपि द्वावेव--भावकर्मणी, तेन सामथ्र्याद्यथासंख्यं प्राप्नोति; तदल्पाच्तरस्य युवादिशब्दस्य परनिपातलक्षव्यभिचारचिह्नान्न भवति। अस्वरितत्वाद्वा॥
बाल-मनोरमा
हायान्तदयुवादिभ्योऽण् १७७२, ५।१।१२९

हायनान्त। हायनान्तेभ्यो युवादिभ्यश्च षष्ठ()न्तेभ्यो भावकर्मणोरण्स्यादित्यर्थः। द्वैहायनमिति। द्विहायनस्य भावः कर्म वेति विग्रहः। वयोवचनलक्षणस्य अञो।ञपवादः। एवं--त्रैहायनमपि। यौवनमिति। "अ"निति प्रकृतिभावान्न टिलोपः।

श्रत्रियस्येति। वार्तिकमिदम्। श्रोत्रियशब्दात्षष्ठ()न्ताद्भावकर्मणोरण्, प्रकृतेर्यलोपश्चेत्यर्थः। येति सङ्घातग्रहणम्। श्रोत्रमिति। छन्दोऽधीते इत्यर्थे छन्दस्शब्दाद्धप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशे "यस्येति चे"त्यल्लोपे श्रोत्रियशब्दः। श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराऽकारसङ्घातस्य लोपे रेफादिकारस्य "यस्येति चे"ति लोपे श्रोत्रमिति रूपम्। यकारादकारस्य "यस्येति चे"ति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण्स्यात्। नच तस्य "यस्येति चे"ति लोपः शङ्क्यः, "लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति"रिति न्यायात्। अकारलोपस्य स्थानित्वेन इकारान्तस्य भत्वाऽभावाच्च। "श्रोत्रियस्य घलोपश्चे"त्येके पठन्ति।

तत्त्व-बोधिनी
हायनान्तयुवादिभ्योऽण् १३६५, ५।१।१२९

हायनान्त। अस्मात्त्वतलोः प्राप्तयोरण्विधानम्। युवस्थविरशब्दाभ्यां वयोवचनलक्षणे अञि प्राप्ते। योवनमिति। अणि परतः "अन्िति प्रकृतिभावः। मनोज्ञादिपाठाद्वञपि। यौवनकम्। "प्रकृत्याऽके राजन्यमनुष्ययुवानः"इति प्रकृति भावः।

श्रोत्रियस्य यलोपश्च। श्रोत्रियस्येति। "श्रोत्रियंश्छन्दोऽधीते"इत्यत्र छान्दसः श्रोत्रभावः, घंश्च प्रत्यय इति यदा व्याख्यानं तदेह "घलोपः"इति यथाश्रुतम्। यदा तु "वाक्यार्थे पदवचन"मिति पक्षस्तदा घशब्देन इय इति रूपं लक्ष्यते। क्वचित्तु "यलोपश्चे"ति पाठः, तत्र येति संघातग्रहणं व्याख्येयम्। वर्णग्रहणे त्विकारस्य यणादेशः स्यान्न तु "यस्येति चे"ति लोपः , अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाऽबावात्। एतच्च हरदत्तग्रन्थे स्पष्टम्। मूलपुस्तकेषु "यलोपः"इति मुख्यपाठ एव प्रायेण दृश्यते, न तु "घलोप"इति पाठः।