पूर्वम्: ५।१।१३२
अनन्तरम्: ५।१।१३४
 
सूत्रम्
गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु॥ ५।१।१३३
काशिका-वृत्तिः
गोत्रचरणाच् छ्लाघाऽत्याकारतदवेतेषु ५।१।१३४

गोत्रवाचिनः चरनवाचिनः च प्रातिपदिकात् वुञ् प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु। तत्र श्लाघा विकत्थनम्। अत्याकारः पराधिक्षेपः। तदवेतः तत्प्राप्तः तज्ज्ञो वा। तदिति गोत्रचरणयोः भावकर्मणी निर्दिश्येते। तत्प्राप्तः तदवगतवान् दवेत इत्युच्यते। श्लाघायां तावत् गार्गिकया श्लाघते। काठिकया श्लाघते। गार्ग्यत्वेन कठत्वेन च विकत्थते इत्यर्थः। अत्याकारे गार्गिकया अत्याकुरुते। काठिकया अत्याकुरुते। गार्ग्यत्वेन कठत्वेन च परानधिक्षिपति इत्यर्थः। तद्वेतः गार्गिकामवेतः। काठिकामवेतः। गार्ग्यत्वं कठत्वं च प्राप्तः इत्यर्थः। तद् वा अवगतवानित्यर्थः। श्लाघादिषु इति किम्? गार्ग्यत्वम्। कठत्वम्।
न्यासः
गोत्रचरणाच्छलाघात्याकारतदवेतेषु। , ५।१।१३३

अपत्यनिमित्ता समाख्या गोत्रख्या, सा च प्रवराध्याये पठ()ते। या च वेदाध्ययनप्रयुक्तान्? पुरुषानाचष्टे सा चरणशब्दस्याख्या। "गोत्रञ्च चरणैः सह" (म।भा।, २।२२५) इति पारिभाषिकं गोत्रचरणयोर्जातित्वमिति "प्राणभृज्जाति" ५।१।१२८ इत्यादिनाऽञि प्राप्ते वुञो विधानम्()। इह गोत्रचरणवाचिनी द्वे प्रातिपदिके, अर्थावपि द्वावेव--तत्र यथासंख्यं प्राप्नोति, तत्? पूर्वपदस्वरितत्वान्न भवति। अत एवाह--"प्रत्येकं भावकर्मणोरर्थयोः" इति। "श्लाघादिषु विषयभूतेषु" इति। तथा हि न भावः श्लाघादीनामन्यतमोऽपि भवितुमर्हति। शब्दप्रवृत्तिनिमित्तं भावः। न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमित्तं भवति। कर्मापि नैव श्लाघादिस्वभावं भवति। न हि गोत्रचरणानां श्लाघादयः कर्मतया रूढाः, यथा--अग्नेस्तापादयः; क्रियारूपत्वात्तेषाम्()। साध्यतया भावकर्मणोः प्रत्ययार्थतया विषयभूतेषु वुञ्? भवति। "तदवेतस्तत्प्राप्तः" इति। इणोऽत्र गत्यर्थत्वात्()। "तज्ज्ञातो वा" इति। अवपूर्वस्येणो ज्ञानेऽपि वृत्तिसम्भवात्()। तच्छब्देन चेह गोत्रचरणयोः सम्बन्धिनी भावकर्मणैइ प्रतिनिर्दिश्येते। "गार्गिकया" इति। "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इति यलोपः॥
बाल-मनोरमा
गोत्रचरणाच्छ्लाघाऽत्याकारतदवेतेषु १७७६, ५।१।१३३

गोत्रचरणात्। गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठ()न्ताद्भावकर्मणोर्वुञ्स्यात्श्लाघादिषु विषयेष्वित्यर्थः। "अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्र"मित्युक्तम्। "अत्याकार" इत्यस्य विवरणम्-अधिक्षेप इति। तदवेत इत्येतद्विवृणोति--ते गोत्रेति। तच्छब्देन गोत्र चरणयोर्भावकर्मणी विवक्षिते। अवपूर्वादिणः प्राप्त्यर्थाज्ज्ञानार्थाद्वा कर्तरि क्तः। ते अवेतस्तदवेत इति विग्रहः। "द्वितीये"ति योगविभागात्समासः। अवगतवान्वेति। ज्ञातवानित्यर्थः। गार्गिकयेति। गाग्र्यशब्दाद्वुञि "आपत्यस्ये"ति यलोपे "यस्येति चे"त्यकारलोपे लोकात्स्त्रीत्वे टापि "प्रत्ययस्था"दिति इत्त्वे गार्गिकाशब्दः। काठिकाया श्लाघते। इति चरणादुदाहार्यम्। अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययर्थान्वयिनो नतु प्रत्ययवाच्या इति बोध्यम्।

तत्त्व-बोधिनी
गोत्रचरणाच्छ्लाघाऽत्याकारतदवेतेषु १३६८, ५।१।१३३

गोत्रचरणात्। गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद्वुञ् स्याद्भावकर्मणोः। अपत्याधिकारादन्यत्र लौकिकं गोत्रम्। तेनापत्यप्रत्ययान्तेभ्य इत्यर्थः। प्रवराध्याये ये पठितास्तेभ्य इत्यपरे। "गोत्रं च चरणैः सहे"ति जातित्वात् "प्राणभृज्जाती"त्यादिना अञि प्राप्ते वचनम्। श्र्लोघेत्यादि। श्र्लाघादिषु विषयभूतेष्वित्यर्थः। प्राप्त इति। इणः प्राप्त्यर्थत्वात्। अवपूर्णस्येणो ज्ञाने प्रसिद्धत्वादाह---अवगतवान्वेति। गार्गदिकयेति। "अपत्यस्ये"ति यलोपः। चरणाद्वुञ् उदाहरणं तु "कठिकया श्र्लाघते"इत्यादि बोध्यम्। श्र्लाघादिष्विति किम्()। गाग्र्यत्वम्। कठत्वम्।