पूर्वम्: ५।१।१३३
अनन्तरम्: ५।१।१३५
 
सूत्रम्
होत्राभ्यश्छः॥ ५।१।१३४
काशिका-वृत्तिः
होत्राभ्यश् छः ५।१।१३५

गोत्राशब्दः ऋत्विग्विशेषवचनः। ऋत्विग्विशेषवाचिभ्यः छः प्रत्ययो भवति भावकर्मणोः। अच्छावाकस्य भावः कर्म वा अच्छावादीयम्। मित्रावरुणीयम्। ब्राह्मणाच्छंसीयम्। आग्नीध्रीयम्। प्रतिप्रस्थीत्रियम्। त्वष्ट्रीयम्। पोत्रीयम्। बहुवचनं स्वरूपविधिनिरासार्थम्।
न्यासः
होत्राभ्याश्छः। , ५।१।१३४

त्वतलोः प्राप्तयोश्छो विधीयते॥
बाल-मनोरमा
होत्राभ्यश्छः १७७७, ५।१।१३४

होत्राभ्यश्छः। ऋत्विग्वाचीति। याज्ञिकप्रसिद्धेरिति भावः। ऋत्विग्विशेषवाचिभ्यः षष्ठ()न्तेभ्यश्छः स्याद्भावकर्मणोरित्यर्थः।अच्छावाकीयमिति। "आ च त्वा"दिति त्वतलोरपि सर्वत्र समावेशो बोध्यः।

तत्त्व-बोधिनी
होत्राभ्यश्छः १३६९, ५।१।१३४

होत्राशब्द इति। जुहोतेरुआन्।