पूर्वम्: ५।१।१४
अनन्तरम्: ५।१।१६
 
सूत्रम्
चर्म्मणोऽञ्॥ ५।१।१५
काशिका-वृत्तिः
चर्मणो ऽञ् ५।१।१५

चर्मणः इति षष्ठी। चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकातञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ ५।१।१२ इत्येतस्मिन् विषये। छस्य अपवादः। वार्ध्रं चर्म। वारत्रं चर्म।
न्यासः
चर्मणोऽञ्?। , ५।१।१५

"चर्मणः" इति पञ्चमी वा स्यात्()? षष्ठी वा? यदि पञ्चमी, चर्मण एव प्रत्ययो भवेत्(), न चर्मविकारवाचिभ्यः। एतच्च कुतो लभ्यते? अनभिधानात्()। तथा हि प्रकृतिविशेष एव प्रत्यय इष्यते। न च चर्मशब्दादुत्पन्ने प्रत्यये विवक्षितार्थस्याभिधानमस्ति। तस्मान्नेयं पञ्चमी, अपि तु षष्ठी॥
बाल-मनोरमा
चर्मणोऽञ् १६५५, ५।१।१५

चर्मण्यपीति। चर्मणि प्रकृतित्वेन वाच्येऽपि अयं ञ्य एव "चर्मणोऽ"ञित्ययं परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः। एतच्च "उगवादिभ्यः" इति सूत्रभाष्ये स्थितम्। औपानह्रमिति। उपानदर्तं चर्मेत्यर्थः। चर्मणोऽञ्। "चर्मण" इति षष्ठ()न्तं विकृतावन्वेति। तदाह--चर्मणो या विकृतिस्तद्वाचकादिति। "तादथ्र्यचतुथ्र्यन्ता"दिति शेषः। अञ्स्यादिति। "प्रकृतौ वाच्याया"मिति शेषः। वध्रर्यै इद"मिति पाठान्तरम्। "वृधिवपिब्यां रन्" इति वृधेः रनि लघूपधगुणे रपरत्वे वध्र्रशब्दश्चर्मवाचकः, तस्माद्विकारे अणि वार्ध्री रज्जुः।

तत्त्व-बोधिनी
चर्मणोऽञ् १२७८, ५।१।१५

चर्मणोऽञ्। "तदर्थ"मित्यादिपूर्वोक्ते अञ्स्यात्। छस्यापवादः। "चर्मणः"इति षष्ठी न तु पञ्चमी। पञ्चम्यां तु चर्मशब्दाच्चर्मार्थायां प्रकृतौ प्रत्ययः स्यात् "चर्मणे द्वीपी"त्यादौ। न चेष्यते "चार्मणो द्वीपी"ति। तदाह---चर्मणो या विकृतिरिति। वार्ध्र्यै इति। "वृधिवपिभ्या"मिति रन्प्रत्यये वध्र्रशब्द आद्युदात्तश्चर्मवाची, "तस्य विकारः"इत्यण्। "टिड्ढे"तित ङीप्। वार्ध्री रज्जुः, तस्यै। वधेरौणादिके ष्ट्रनि तु वध्रीति भवति। ततोऽञि तु वाध्रम्। "नध्री वध्री वरत्रा स्या"दित्यमरः। "चञ्चाः पश्य, वध्रिकाः पश्य"इति भाष्यम्।