पूर्वम्: ५।१।१६
अनन्तरम्: ५।१।१८
 
सूत्रम्
परिखाया ढञ्॥ ५।१।१७
काशिका-वृत्तिः
परिखाया ठञ् ५।१।१७

परिखाशब्दात् ढञ् प्रत्ययो भवति तदस्य तदस्मिन् स्यात् ५।१।१६ इत्येतस्मिन्नर्थे। छस्य अपवादः। पारिखेयी भूमिः। छयतोः पूर्णो ऽवधिः। इतः परमन्यः प्रत्ययो विधीयते।
न्यासः
परिखाया ढञ्?। , ५।१।१७

परिखाशब्देन चात्र खेयमुच्यते॥
बाल-मनोरमा
परिखाया ढञ् १७७८, ५।१।१७

परिखाया ढञ्। "पूर्वसूत्रविषये" इति शेषः। पारिखेयी भूमिरिति। परिखा अस्या अस्ति, अस्यामस्तीति वा विग्रहः। परिखायोग्येत्यर्थः। छयतोः पूर्णोऽवधिरिति। "प्राग्वतेष्ठ"ञित्यारभ्य "द्वित्रिपूर्वादण्चे"त्यन्तै सूत्रैः प्रत्ययविशेषेष्वनुक्रान्तेषु "तेनक्रीत"मिति पठितम्। ततश्च प्राक्क्रीतादित्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्क्यं, प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसंभवादिति भावः।

*****इति बालमनोरमायाम् छयतोरवधिः*****

अथ पाञ्चमिकाः।

-------------