पूर्वम्: ५।१।१७
अनन्तरम्: ५।१।१९
 
सूत्रम्
प्राग्वतेष्ठञ्॥ ५।१।१८
काशिका-वृत्तिः
प्राग्वतेष् ठञ् ५।१।१८

तेन तुल्यं क्रिया चेद् वतिः ५।१।११४ इति वक्ष्यति। प्रागेतस्माद् वतिसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः ठञ् प्रत्ययस् तेष्वधिकृतो विदितव्यः। वक्ष्यति पारायणतुरायणचान्द्रायणं वर्तयति। पारायणिकः। तौरायणिकः। चान्द्रायणिकः।
लघु-सिद्धान्त-कौमुदी
प्राग्वतेष्ठञ् ११४६, ५।१।१८

तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते॥
न्यासः
प्राग्वतेष्ठञ्?। , ५।१।१८

प्राग्वचनं "शीर्षच्छेदाद्यच्च" ५।१।६४, "दण्डादिभ्यो यः" ५।१।६५ इत्येवमादिनाधिकारवता ठञि विच्चिन्ने "पारायणतुरायणचान्द्रायणं वत्र्तयति" ५।१।७१ इत्येवमादावर्थनिर्देशे ठञेव यथा स्यादित्येवमर्थम्()॥
बाल-मनोरमा
प्राग्वतेष्ठञ् १६५८, ५।१।१८

अथ आर्हीयाः। प्राग्वतेः। वतिशब्दस्तद्धटितसूत्रपरः। तदाह--तेन तुल्यमिति। "तेनतुल्य"मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठञित्युपतिष्ठत इति यावत्।

तत्त्व-बोधिनी
प्राग्वतेष्ठञ् १२८०, ५।१।१८

प्राग्वतेष्ठञ्। "ठ"ञित्येव वक्तव्ये "प्राग्वते"रिति वचनं मध्ये योऽगदिकारवानपवादः, "सर्वभूमिपृथिवीभ्यामणञौ""शीर्षच्चेदाद्यच्चे"त्येवमादिः, तेन विच्छेदेऽपि "पारायणतुरायणे"त्यादौ ठञेव यथा स्यादित्येवमर्थम्। न चैवं पारायणादिसूत्र एव ठञ्निर्दिश्यतामिति वाच्यम्, उत्तरसूत्रे येषां पर्युदासः क्रियते गोपुच्छादीनां तेभ्याष्ठञः प्रकृतसूत्रं विनाऽलाभात्। तथा च गौपुच्छिकः साप्ततिक इत्यादौ ठञर्थमिदं सूत्रमत्र प्रदेशे आरब्धमिति बोध्यम्।