पूर्वम्: ५।१।१
अनन्तरम्: ५।१।३
 
सूत्रम्
उगवादिभ्योऽत्॥ ५।१।२
काशिका-वृत्तिः
उगवादिभ्यो यत् ५।१।२

प्राक् क्रीतातित्येव। उवर्णान्तात् प्रातिपदिकात् गवाऽदिभ्यश्च यत् प्रत्ययो भवति प्राक्क्रीतियेष्वर्थेषु। छस्य अपवादः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। गवादिभ्यः खल्वपि गव्यम्। हविष्यम्। सनङ्गुर्नाम चर्मविकारः। ततः परत्वात् चर्मणो ऽञ् ५।१।१५ इत्येष विधिः प्राप्नोति। तथा चरुर्नाम हविः, सक्तुरन्नविकारः। अपूपादिषु अन्नविकारेभ्यश्च इति पठ्यते। ततो विभाषा हविरपूपाऽदिभ्यश्च ५।१।३ इत्येष विधिः प्राप्नोति। तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्ययेव इष्यते, सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धानाः इति। गवादिषु नाभि नभ च इति पठ्यते। तस्य अयम् अर्थः। नाभिशब्दो यत्प्रत्ययम् उत्पादयति नभं चादेशम् आपद्यते इति। नाभये हितः नभ्यो ऽक्षः। नभ्यमञ्जनम्। यस् तु शरीरावयवाद् यत् ५।१।६ इति यति कृते, नाभये हितं नाभ्यं तैलम् इति भवितव्यम्। गवाऽदिषु यता सन्नियुक्तो नभभावो ऽत्र न भवति। गो। हविस्। वर्हिष्। खट। अष्टका। युग। मेधा। स्रक्। नाभि नभं च। शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सनियोगेन चान्तोदात्तत्वम्। शुन्यं, शून्यम्। चकारस्य अनुक्तसमुच्चयार्थत्वात् नस् तद्धिते इति लोपो न स्यात्। ऊधसो ऽनङ् च। ऊधन्यः कूपः। खर। स्खद। अक्षर। विष। गवादिः।
न्यासः
उगवादिभ्यो यत्?। , ५।१।२

उगिति प्रत्याहारग्रहणं वा स्यात्? उवर्णग्रहणं वा? तत्राद्ये पक्षेऽयं वाक्यार्थो जायते-उगन्तेभ्यः प्रातिपदिकेभ्योऽवादिभ्योऽवकारादिभ्योऽवसुप्रभृतिभ्य इति। वकारादीन्? वर्जयित्वेत्यर्थः। ननु चैवं सति पञ्चम्या निर्देशः स्यात्()? नैष दोषः; "सुपां सुलुक्()" ७।१।३९ इति लुका निर्दष्टत्वात्()। एवं तर्हि प्रातिपदिकेषु गवादिपाठसामथ्र्यात्? प्रत्याहारग्रहणं न भवति; अन्यथा हि गवादीनां पाठोऽनर्थकः स्यात्()। एतत्? सर्वं मनसि कृत्वाऽ‌ऽह-"उवर्णान्तात्()" इति। सर्वत्रग्रहणे तदन्तविधेरभ्युपगमादित्यभिप्रायः। "शङ्कव्यम्()" इति। "ओर्गुणः" ६।४।१४६ "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः। "सनङगुः" इत्यादि। चर्मविकारलक्षणस्याञोऽव काशाः--वाध्र्रम्(), वारत्रम्(), उवर्णान्तलक्षणस्य यतोऽवकाशः--शङ्कव्यम्? पिचव्यमिति; सनङगुर्नाम चर्मविकारः, तत्रोभयप्राप्तौ परत्वात्? "चर्मणोऽञ्()" (५।१।१५) इत्यञ्? प्राप्नोति "तथा" इत्यादि। "अन्नविकारेभ्यश्च" इति। अपूपादिलक्षणास्य प्क्षीकस्य यतोऽवकाशः--अपूप्यास्तण्डुलाः, अपूपीया इति, उवर्णान्तलक्षणस्य स एव; चरुर्नाम हविर्विशेषः; सक्तुश्चान्नविकारः, तत उभयप्रसङ्गे परत्वात्? "विभाषा हविरपूपादिभ्यः" ५।१।४ इति हविर्लक्षणोऽन्नविकारलक्षणश्च विधिः प्राप्नोति। तदेवं सनङ्गुशब्दादञ्? प्राप्तः, चरुसक्तुशब्दाभ्यां विकल्पेन यत्(), नित्यश्चेष्यते, तदर्थं पूर्वविप्रतिषेधो भाषितव्य इति। "ओर्गुणः" ६।४।१४६, "वान्तो यि प्रत्यये" ६।४।७९ इत्यवादेशः। "सनङ्गव्यम्()" इत्यादि। एतच्चेष्टवाचित्वात्? परशब्दस्य लभ्यत इत्यवगन्तव्यम्()। "गवादिषु नाबि नभञ्चेति पठ()ते" इति। अत्र कस्यचिदियमाशङ्का स्यात्()--भसंज्ञाप्रतिषेदो विधियत ति, ततश्च यस्येति लोपेन भवितव्यमित्यत आह--"नाभिशब्दो यत्प्रत्ययम्()" इति। शरीरावयवो यो नाभिशब्दस्तत्र कथं भवितव्यमित्याह--"यस्तु" इत्यादि। ततः शरीरावयवाद्यति कृते परत्वात्? "नाभ्यं तैलम्()" इति। ननु च शरीरावयवलक्षणे यति सति नभभावः कस्मान्न भवतीतियाह-"गवादिषु यता" इत्यादि। स हि गवादियता सह विहितः। तेन "सन्नियोगशिष्टानामन्यतराबाव उभयोरप्यभावः" (व्य।प।४८) इति नभभावो न भवति। "शुनः" इत्यादि। ()आन्नित्येतस्य सम्प्रसारणे कृतेऽन्नन्तताऽस्तीति "नस्तद्धिते" ६।४।१४४ इति टिलोपेन भाव्यमेवेति। एवं तर्हि सम्प्रसारणसामथ्र्यान्न भवति? नैतदस्ति; "यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्तु विदेर्निमित्तमेव नासौ बाध्यते" (व्या।पा।५६) इति तदवस्थो दोषः। दीर्घविधानसामथ्र्यादिति चेत्()? एवमपि पक्षे स्यात्()। एवं तह्र्रन्यथा व्याख्यायते। इह चकारद्वयं पठ()ते--सम्प्रसारणञ्ज, वा दीर्घत्वञ्चेति। द्वितीयश्चकारी भिन्नक्रमः सम्प्रसारणसमीपे द्रष्टव्यः। स च समुच्यार्थोऽन्यस्य समुच्चेतव्यस्याभावात्? तदेव समुच्चिनोति। तत्र सम्प्रसारणमेकेन क्रियते द्वितीयेन तद्रूपस्यैवावस्थितिरिति। "तत्सन्नियोगेन" इत्यादि। तदित्यनेन दीर्घत्वं प्रत्यवमृश्यते। तेन दीर्घत्वेन यत एवान्तोदात्तत्वं भवति; अन्यथा "यतोऽनावः" ६।१।२०७ इत्याद्युदात्तत्वं स्यात्()। "ऊधसोऽनङ्? च" इति। ऊधःशब्दस्यानङादेशो भवति, चकाराद्यच्य। "ऊधन्यः"। पूर्ववत्? प्रकृतिभावः॥