पूर्वम्: ५।१।२३
अनन्तरम्: ५।१।२५
 
सूत्रम्
विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्॥ ५।१।२४
काशिका-वृत्तिः
विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायाम् ५।१।२४

विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवति असंज्ञायां विषये आर्हीयेष्वर्थेषु। विंशकः। त्रिंशकः। ति विंशतेर् डिति ६।४।१४२ इति तिलोपः। असंज्ञायाम् इति किम्? विंशतिकः। त्रिंशत्कः। कथं पुनरत्र कन्, यावता अतिशदन्तायाः इति पर्युदासेन भवितव्यम्? योगविभागः करिष्यते, विंशतित्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुनसंज्ञायां इति।
न्यासः
विंशतितिं?रशद्रभ्यां ड्वुनसंज्ञायाम्?। , ५।१।२४

"विंशकः" इति। "ति विंशतेर्डिति" ६।४।१४२ इति तिशब्दस्य लोपः, अतो गुणे ६।१।९४ पररूपत्वम्()। यस्येति ६।४।१४८ लोपो न भवति; "असिध्दवदत्रा भात्()" ६।४।२२ इति लोपस्यासिद्ध्त्वात्()। नन्विहान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञा, तत्कथं पररूपत्वम्()? एवं तह्र्रसिद्धत्वस्यानित्यत्वाद्? यस्येति लोपो भविष्यतीत्यदोषः। "कथं पुनरत्र कन्()" इति। तिं()रशत्क इत्यधिकृत्य प्रश्नः विंशतिक इत्यत्रार्थवतस्तिशब्दस्य ग्रहणात्? पर्युदासो न प्रवत्र्तत इति तमधिकृत्यास्य प्रश्नस्योपन्यासो नोपपद्यते। "योगवभागः करिष्यते"इति। तिं()रशदर्थमित्यभिप्रायः॥
बाल-मनोरमा
विंशतितिं?रशद्भ्यां ड्वुन्नसंज्ञायाम् १६६७, ५।१।२४

विंशतित्रिशद्भ्यां। नन्वेकसूत्रत्वे विंशतितिं()रशद्भ्यां ड्वुनेव स्यात्, कन् तु नस्यात्, "अतिशदन्ताया" इति निषेधादित्यत आह--योगेति। विंशतित्रिशद्भ्यामित्येकं सूत्रम्। "ड्वुन्नसंज्ञायां"मित्यपरमित्यर्थः। आद्यं व्याचष्टे--आभ्यां कन्स्यादिति। "शसङ्ख्याया अतिशदन्तायाः"इत्यतः कनित्यनुवर्तते इति भावः। द्वितीयसूत्रे विंशतितिं()रशद्भ्या"मित्यनुवृत्तिभिप्रेत्याह--असंज्ञायामिति। "आभ्या"मिति शेषः। विंशक इति। विंशत्या क्रीत इत्यर्थः। ड्वुन्। अकादेशः। "ति विंशतेर्डिती"ति तिशब्दस्य लोपः। तिं()रशक इति। ड्वुन्। अकादेशः। "टे"रिति टिलोपः। आद्यसूत्रं परिशेषात्संज्ञायामित्यभिप्रेत्याह--संज्ञायां त्विति। कंसात्। इत्यादि स्पष्टम्।

तत्त्व-बोधिनी
विंशतितिं?रशद्भ्यां ड्वुन्नसंज्ञायाम् १२८७, ५।१।२४

कर्तव्य इति। अन्यथा। त्यन्तशदन्तयोः पर्युदासादिं()वशतितिं()रशद्भ्यां कन् दुर्लभ इति भावः। विंशक इथि। "ति विंशतेर्डिती"ति तिशब्दस्य लोपः।

आर्धाच्चेति वक्तव्यम्। अर्धिक इति। अर्धशब्दस्य कार्षापणार्द्धे रुञत्वाद्भागवदपेक्षयाऽत्राऽसामर्थं नाशह्क्यम्। प्रकरणादिवशेन भावविशेषे विज्ञाते सति नास्त्य[स्याऽ]सामथ्र्यमिति बोध्यम्। एतेनाऽर्धशब्दस्य सापेक्षत्वात्तदन्तादेव टिठन्, द्रोणार्धिकः प्रस्थार्धिक इति केषांचिदुक्तिः परास्ता।