पूर्वम्: ५।१।२६
अनन्तरम्: ५।१।२८
 
सूत्रम्
शतमानविंशतिकसहस्रवसनादण्॥ ५।१।२७
काशिका-वृत्तिः
शतमानविंशतिकसहस्रवसनादण् ५।१।२७

शतमानादिभ्यः शब्देभ्यः अण् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठक्ठञोरपवादः। शतमानेन क्रीतं शातमानं शतम्। वैशतिकम्। साहस्रम्। वासनम्।
न्यासः
शतमानविंशतिकसहरुआवसनादण्?। , ५।१।२७

"ठक्ठञोरपवादः" ["ठञोऽपवादः" इति मुद्रितः पाठः] इति। शतमानं परिमाणम्(), सहरुआं संख्या, तेनैताभां ठग्न प्राप्नोतीति ठञोऽपवादः। विंसत्या क्रीतं "विंशातिकम्()" इति। तच्च परमाणमपि सम्भवति। तत्र परिमाणाट्ठञोऽपवादः, अपरिमाणट्ठकः, वसनशब्दाट्ठगपवादः॥
बाल-मनोरमा
शतमानविंशतिकसहरुआवसनादण् १६६९, ५।१।२७

शतमान। शातमानमिति। अत्र ठञ् प्राप्तः। वैंशतिकमिति। विंशत्या क्रीतं विंशतिकम्। संज्ञाशब्दोऽयम्। "विंशतितिं()रशद्भ्या"मिति योगविभागात्कन्। विंशतिकेन क्रीतिमिति विग्रहः। तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् प्राप्तः, अन्यस्य संज्ञा चेट्ठक् प्राप्तः। साहरुआमिति। सहरुओण क्रीतमिति विग्रहः। "सङ्ख्याया अतिशदन्तायाः" इति कन् प्राप्तः। वासनमिति। वसनेन क्रीतिमिति विग्रहः। अत्र ठक् प्राप्तः।

तत्त्व-बोधिनी
शतमानविंशतिकसहरुआवसनादण् १२८९, ५।१।२७

ठञ्()ठक्कनामिति। शतमानं परिमाणं, ततष्ठञ् प्राप्तः। विंशत्या क्रीतं विंशतिकम्। संज्ञाशब्दोऽयम्। असंज्ञायां हि "विंशति तिं()रशभ्द्या"मिति ड्वुन् स्यात्। संज्ञा च यदि परिमाणस्य, तदा ठञ् प्राप्तः। अर्थान्तरस्य चेत्तर्हि ठक् प्राप्तः। वसनशब्दात्तु ठगेव। सहरुआशब्दस्य सङ्ख्यावाचित्वात्ततः "सङ्ख्याया अतिशदन्तायाः"इति कन्प्राप्त इति विवेकः।