पूर्वम्: ५।१।२७
अनन्तरम्: ५।१।२९
 
सूत्रम्
अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्॥ ५।१।२८
काशिका-वृत्तिः
अध्यर्धपूर्वद्विगोर् लुगसंज्ञायाम् ५।१।२८

आर्हातित्येव। अध्यर्धशब्दः पूर्वो यस्मिन् तस्मादध्यर्धपूर्वात् प्रातिपदिकद् द्विगोश्च परस्य आर्हीयस्य लुग् भवति असंज्ञायां इति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। लोहिनीशब्दस्य भस्याढे तद्धिते इति पुंवद्भावः। प्रत्ययान्तस्य विशेषणम् असंज्ञाग्रहणं न चेत् प्रत्ययान्तं संज्ञा इति। अध्यर्धशब्दः सङ्ख्या एव, किमर्थं भेदेन उपादीयते? ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति, सङ्ख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् ५।४।१७ इति।
न्यासः
अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्?। , ५।१।२८

"अध्यरधकसम्()" इति। अध्यर्धेन कंसेन क्रीतमिति तद्धितार्थे समासः। "प्राग्वतेः संख्यापूर्वदपानां तदन्तविधिरलुकि" (म।भा। २।३४६) इति "कंसाट्()टिठन्? ५।१।२५ इति टिठन्(), तस्य लुक्()। "द्विकंसम्()" इति। "अध्यर्धशूर्पम्()" इति। शूर्पादञन्यतरस्याम्()" ५।१।२६ इत्यञ्(); ठञन्यतरस्याम्(), तस्य लुक्()। यद्यतिर द्विगोः परस्यार्हीयस्य लुग्विधीयते, विशेषानुपादनात्? तद्धितलुगन्तादपि द्विगोः परस्य प्राप्नोति--द्वाब्यां शूर्पाभ्यां क्रीतः पटो द्विशूर्पः पटः, द्विशूर्पेण पटेन क्रीतमिति द्विशौर्पिकमिति? नैष दोषः; वक्ष्यमाणं विभाषाग्रहणं पूर्वेणापि सम्बध्यते। व्यवस्थितविभाषा सा। तेन तद्धितलुगन्ताद्()द्विगोः परस्य न भविष्यति--द्विशौर्पिकमिति। प्राग्वतीये ठञि कृते "परिमाणान्तस्यासंज्ञाशाणयोः" ७।३।१७ इत्युत्तरपदवृद्धिः। "पाञ्चलोहितिकम्(), पाञ्चकलापिकम्" इति। कस्याचित्? परिमाणविशेषस्य नामधेये एते। पञ्च लोहिन्यः परिमाणमस्येति, पञ्च कपालाः परिमाणमस्येति विगृह्र तद्धितार्थे समासः, "तदस्य परिमाम्()" ५।१।५६ इति ठञ्(), "भस्याऽढे तद्धिते" (वा।७३१) इति पुंवद्बावाल्लोहिनीशब्दस्येकारनकारनिवृत्तिः। "अध्यर्धशब्दः संख्यैव" इति। अभिधानेऽभिधेयोपचारं कृत्वा, "अध्यर्धशब्दः संख्यैव" इत्युक्तम्()। यथैव ह्रेकादिका लौकिकसंख्या, एवमध्यर्धंशब्दोऽपि। "स किमर्थं भेदनोपादीयते" ["सः" नास्ति--कासिका] इति। संख्याया इति शेषः। इह हि द्वगोरध्यर्धपूर्वस्य भेदेनोपादनादध्यर्धपूर्वस्य भेदेन संख्याया उपादानं भवतीति। अतस्तस्याध्यर्धशब्दस्य भेदेनोपादानस्य प्रयोजनं दर्शयितुं पृच्छति। "ज्ञापकार्थम्()" इत्यादिना प्रयोजनमाचष्टे। किं पुनरस्य संख्याकार्यं न भवतीत्याह--"संख्यायाः" इत्यादि॥
बाल-मनोरमा
अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् १६७०, ५।१।२८

अध्यर्धपूर्व। अध्यर्थशब्दः पूर्वो यस्य स अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्वन्द्वात्पञ्चमी। सौत्रं पुंस्त्वम्। तदाह--अध्यर्धपूर्वाद्द्विगोश्चेति। आर्हीयस्येति। प्रत्यासात्तिलभ्यम्। अध्यर्थकंसमिति। अध्यारूढमर्द्धं यस्मिन् तत् अध्यर्धम्। "प्रादिभ्यो धातुजस्ये"ति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः। सार्धमित्यर्थः। अध्यर्धेन कंसेन क्रीतमिति विग्रहः। तद्धितार्थे द्विगुः। "संख्याया अतिशदन्तायाः" इति कन्। तस्यानेन लुगिति भावः। द्विकंसमिति। द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः। तद्धितार्थे द्विगुः। "संक्याया अतिशदन्तायाः" इति कन्। तस्यानेन लुगिति भावः। द्विकंसमिति। द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः। ठको लुक्। नच अध्यर्थकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यं, किञ्चित्संख्याकार्यं कृत्वसुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात्। पाञ्चकलायिकमिति। पञ्च कलायाः परिमाणमस्येति। विग्रहे "तद्धितार्थ" इति द्विगुः। "तदस्ये"तिठञ्। सङ्ख्यासंज्ञासूत्रभाष्ये तु "अध्यर्धपूर्वा"दिति पाठो दृश्यते। नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं, तेन क्रीतं द्विशौर्पिकमित#इ पूर्वोक्तोदाहरणे ठञो लुक् स्यादिति वाच्यं, द्विगुनिमित्तस्यार्हीयस्य लुगिति व्याख्यानादित्यलम्।

तत्त्व-बोधिनी
अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् १२९०, ५।१।२८

अध्यर्धपूर्व। अध्यारूढमर्धं यस्मिन् तदध्यर्धम्। "प्रादिभ्यो धातुजस्ये "त्युत्तरपदलोपः। अध्यर्धशब्दः पूर्वो यस्मिन्निति बहुव्रीहिगर्भे बहुव्रीहौ कृते अध्यर्धपूर्वं च द्विगुश्चेकति द्वन्द्वः। सौत्रं पुंस्त्वम्। द्विगोरिति पञ्चमी न तु षष्ठीत्याशयेन व्याचष्टे------अध्यर्धपूर्वादित्यादि। एतच्च वृत्तिकाररीत्या व्याख्यातम्। अत्र वार्तिकं "द्विगोर्लुकि तन्निमित्तग्रहणम्"। द्विगोर्निमित्तं यस्तद्धितस्तस्य लुगिति वक्तव्यम्। द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम्। द्विशूर्पेण क्रीतं द्विशैर्पिकमिति। पूर्वोक्तोदाहरणे तु ठञो लुङ् माभूदिति। ननु द्वयोः शूर्पयोः समाहारो द्विशूर्पी, तया क्रीतमिति विग्रहे द्विशूर्पमिति रूपं न स्यात्। तद्धितस्यात्रे द्विगोरनिमित्ततया "अध्यर्धे"ति लुकोऽप्रवृत्तेः। "द्विगोः परस्ये"ति व्याख्यायां तु नः सिद्धमिष्टमिति चेन्मैवम्। "अर्थविशेषाऽसंप्रत्यये अतन्निमित्तादपी"ति वचनान्तरस्या वार्तिककृतैवोक्तत्वात्। यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते तत्र सतद्धितो यस्य निमित्तं न भवति तस्मादपि द्विगोः परस्य लुगिति वक्तव्यमिति तस्यार्थः। एवं च द्विशूर्पमिति तद्धितार्थद्विग#उना सह द्विशूप्र्या क्रीतमित्यस्यार्थो न भिद्यते इति समाहाराद्विगोः परस्य तद्धितस्य लुग् भवत्येवेति न काप्यनुपपत्तिः। वस्तुतस्तु सूत्रे "द्विगो"रिति षष्ठीमाश्रित्य "द्विगोर्निमित्तं यस्तद्धितः"इति व्याख्याय प्रथमं वार्तिकं प्रत्याख्यातुं शक्यम्। "द्वुशूप्र्या क्रीत "मिति विग्रहे तु द्विशूर्पादेव प्रत्ययो भवति, अवयविकन्यायात् , न तु द्विशूर्पीशब्दादित्याश्रित्य द्वितीयमपि प्रत्याख्यातुं शक्यम्। नन्वध्यद्र्धशब्दः संख्यावाच्येव, तथा च लोके गण्यते "एकोऽध्यार्धो द्वौ"इति। अतएव अध्यर्धकमिति कन्, अध्यर्धकंसमिति तद्धितार्थे द्विगुः, अध्यद्र्धसंवत्सरिकमित्यादौ "सङ्ख्यायाः संवत्सरसङ्ख्यस्य चे"त्युत्तरपदवृद्धिश्च भवति, तत्किमध्यर्धपूर्वग्रहणेनेति चेत्। अत्राहुः----"सङ्ख्याकार्यमेतस्य किंचन्ने"ति ज्ञापनार्थमिदम्। तेन कन्द्विगुसमासोत्तरपदवृद्धिभ्योऽन्यत्र भवति। तद्यथा---अध्यर्धं करोति। नेह कुतृवसुच्। यः सकृत्फलान्तां क्रियामभिनिर्वर्त्त्य पुनस्तामेव कुर्वन्मध्ये निवर्तते स एवमुच्यते इति।

पाञ्चकलायिकमिति। पञ्च कलायाः परिमाणमस्येति विग्रहे "तद्धितार्थ "इति समासकः। "तदस्य परिमाण"मिति ठञ्। एवं पाञ्चलोहितिकमपि बोध्यम्। पञ्च लोहिन्यो गुञ्जाः परिमाणमस्येति विग्रहे पूर्वत्समासतद्धितौ। "भस्याऽढे तद्धिते"इति पुंबद्भावाल्लोहिनीशब्दस्येकारनकारयोरभावः। परिमाणविशेषस्य मानधेये एते। असंज्ञाग्रहणं प्रत्ययान्तस्य विशेषणं, न तु द्विगोः। एतच्च वृत्तिकृता सूत्रशयमनुरुध्य वर्णितमिति इहापि ततैवोक्तम्। भाष्यवार्तिकयोस्त्वसंज्ञाग्रहणं प्रत्याख्यातम्। तथा हि द्विगुविशेषणमसंज्ञाग्रहणम्। पञ्चकलायचपञ्चलोहितशब्दौ च द्विगू कृततद्धितलुकावेव संज्ञे। यस्तु ताभ्यामुत्पद्यते ठन्()स श्रूयते एव, द्विगोरनिमित्तत्वेन तस्य लुगभावादिति।