पूर्वम्: ५।१।२८
अनन्तरम्: ५।१।३०
 
सूत्रम्
विभाषा कार्षापणसहस्राभ्याम्॥ ५।१।२९
काशिका-वृत्तिः
विभाषा कार्षापणसहस्राभ्याम् ५।१।२९

अध्यर्धपूर्वाद् द्विगोश्च कार्षापणसहस्रान्तातुत्तरस्य आर्हीयप्रत्ययस्य विभाषा लुग् भवति। पूर्वेण लुकि नित्य प्राप्ते विकल्प्यते। अध्यर्धकार्षापणम्, अध्यर्धकार्शापणिकम्। द्विकार्षापणम्, द्विकार्षापणिकम्। औपसङ्ख्यानिकस्य टिठनो लुक्। अलुक्पक्षे च प्रतिरादेशो विकल्पितः। अध्यर्धप्रतिकम्। द्विप्रतिकम्। त्रिप्रतिकम्। सहस्रात् अध्यर्धसहस्रम्, अध्यर्धसाहस्रम्। द्विसहस्रम्, द्विसाहस्रम्। अलुक्पक्षे सङ्ख्यायाः संवत्सरसङ्ख्यस्य च इत्युत्तरपदवृद्धिः। सौवर्णशतमानयोरुपसङ्ख्यानम्। अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। द्विसुवर्णम्, द्विसौवर्णिकम्। अध्यर्धशतमानम्, अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्। परिमाणान्तस्य इत्युत्तरपदवृद्धिः।
न्यासः
विभाषा कार्षापणसहरुआआभ्याम्?। , ५।१।२९

"अध्यर्धसहरुआम्()" इति। "शतमानविंशतिक" ५।१।२७ इत्यादिना विहितस्याणो लुक्()। "अध्यर्धसाहरुआम्()" इति। "संख्यायाः संवत्सरसंख्यस्य च" ७।३।१५ इत्युत्तरपदवृद्धिः। "सुवर्णशत्मानयोरुपसंख्यानम्()" इति। उपसंख्यानं प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्()--"विस्ताच्च" ५।१।३१ इत्यतः सिंहावलोकितन्यायेन चकारोऽत्रोपतिष्ठते, स चानुक्तसमुच्चयार्थः, तेन सुवर्णशतमानयोरपि विष्यति। "अध्यर्धसुवर्णम्()" इति। ठञो लुक्(), "अद्यर्धशतमानम्()" इति। "शतमान" ५।१।२७ इत्यादि-विहितस्याणः। "अध्यर्धशतमानम्()" इति। "परिमाणान्तस्य" ७।३।१७ इत्यादिनोत्तरपदवृद्धिः। ननु च सुवर्णमुन्मानम्(), न परिमाणम्(), तत्कुतस्तस्य बुद्धिः? नैष दोषः; उत्तरपदवृद्धौ हयुन्मानमपि परिमाणमिति गृह्रते। कगुतो ज्ञायते? "असंज्ञाशाणयोः" ७।३।१७ इति शाणशब्दस्य प्रतिषेधात्()। यदि तर्हि तत्रोन्मानं न गृह्रेत, तदा शाणस्योन्मानार्थस्य प्राप्तिरेव नास्तीति प्रतिषेधं न कुर्यात्()। अध्यर्धपूर्वद्विगुभ्यां कार्षापणसहरुआयोर्यथासंख्यं कस्मान् भवति? लक्षणव्यभिचारेण तदभावस्य सूचितत्वात्()। इह तावत्? "अध्यर्धपूर्वद्विगोः" (५।१।२८) इति निर्देशेऽल्पाच्तरत्वाद्? ध्यन्तत्वाच्च द्विगुशब्दस्य पूर्वनिपातः प्राप्नोति, "कार्षापणसहरुआआभ्याम्()" इत्यत्राल्पाच्तरत्वात्? सहरुआशब्दस्य? तावेतौ निर्देशौ लक्षणान्तरनिरपेक्षतां बोधयन्तौ यतासंख्यपरिभाषाया अप्यभावं बोधयत इति न भवति यथासंख्यपरिभाषा॥
बाल-मनोरमा
विभाषा कार्षापणसहरुआआभ्याम् १६७१, ५।१।२९

विभाषा। लुग्वेति। "आर्हीयस्ये"ति शेषः। औपसंख्यानिकस्येति।"कार्षापणाट्ठिन् वक्तव्यः" इत्युक्तस्येत्यर्थः। अध्यर्धप्रतिकमिति। प्रत्यादेशस्य टिठन्संनियोगशिष्टत्वात्प्रत्यादेशपक्षे टिठनो न लुगिति भावः। अध्यर्धसहरुआमिति। "शतमाने"ति विहितस्याऽणो लुक्। लुगभावे तु "सङ्ख्यायाः संवत्सरसङ्ख्यस्य चे"त्युत्तरपदवृद्धिः।

तत्त्व-बोधिनी
वभाषा कार्षापणसहरुआआभ्याम् १२९१, ५।१।२९

विभाषा। टिठनो लुगिति। प्रत्यादेशपक्षे तु लङ् न भवति, प्रत्यादेशस्य प्रत्ययसंनियोगशिष्टत्वादिति बोध्यम्। अध्यर्धसहरुआमिति। "शतमानविंशतिके"ति बिहितस्याऽणो लुक्। तदभावपक्षे तु "सङ्ख्यायाः संवत्सरसंख्यस्य चे"त्युत्तरपदवृद्धिः। अध्यर्धशब्दः सङख्यावाचीत्यधुनैवोक्तत्वात्।द्वित्रिपूर्वात्। अध्यर्धग्रहणमुत्तरार्थमनुवृत्तमपीह न संबध्यते। "द्विगो"रिति तु संबध्यत एव षष्ठीसमासं व्यावर्तयितुम्। अत्र च व्याख्यानमेव शरणम्। "द्वित्रिभ्यां निष्का" दित्येव सिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनमिति हरदत्तः। द्विनैष्किकमिति। "प्राग्वतेष्ठञ्"। मतान्तरे तु ठगिति मनोरमायाम्। "--निष्कादिभ्यः समासे ठगभावात्, "परिच्छेदकमात्रं गृह्रते"इति मतान्तरेऽपि ठञेव भवित, तन्मते उन्मानस्यापि परिमाणत्वात् "अगोपुच्छे"त्यादिना पर्युदस्तत्वाठ्ठगभावे निष्कादिभ्यष्ठञि प्राप्ते। असमासे ठग्विधानेऽपि समासे ठञ एव प्राप्तत्वात्----"इत्यन्ये। "परिमाणान्तस्ये"त्युत्तरपदवृद्धिः। "द्विगो"रिति संबन्धान्नेह लुक्। द्वयोर्निष्को द्विनिष्कस्तेन क्रीतं द्विनैष्किकम्। "अध्यर्धपूर्वे"त्यसंबन्धादध्यर्धनैष्किकमित्यत्राप्यनेन लुङ् न भवति।