पूर्वम्: ५।१।२९
अनन्तरम्: ५।१।३१
 
सूत्रम्
द्वित्रिपूर्वान्निष्कात्॥ ५।१।३०
काशिका-वृत्तिः
द्वित्रिपूर्वान् निष्कात् ५।१।३०

द्विगोः इत्येव। द्वित्रिपूर्वाद् द्विगोर् निष्कान्तातार्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विनिष्कम्, द्विनैष्किकम्। त्रिनिष्कम्, त्रिनैष्किकम्। बहुपूर्वाच् च इति वक्तव्यम्। बहुनिष्कम्, बहुनैष्किकम्। परिमाणान्तस्य इत्युत्तरपदवृद्धिः।
न्यासः
द्वित्रिपूर्वान्निष्कात्?। , ५।१।३०

अध्यर्धपूर्वग्रहणमस्वरितत्वान्नोपतिष्ठते। "द्विनिष्कम्()" इति। द्वाभ्यां निष्काभ्यां क्रीतमिति असमाने ठको विधानादत्र ठञ्(), तस्य लुक्()। "द्विनैष्किकम्()" इति। "परिमाणान्तस्य" ७।३।१७ इत्यादिनोत्तरपदवृद्धिः। "बहुपूर्वाच्च" इति। बहुपूर्वद्()द्विगोर्निष्कशब्दान्तादार्हीयस्य प्रत्ययस्य विभाषा लुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"द्वित्रिभ्यां निष्कात्()" इत्येव सिद्धे पूर्वग्रहणमधिकं कुर्वतै तत्? सूचितम्()--"अन्यदप्यधिकं किञ्चिदस्ति" इति। तेन बहुपूर्वादपि भवति॥
बाल-मनोरमा
द्वित्रिपूर्वान्निष्कात् १६७२, ५।१।३०

द्वित्रिपूर्वान्निष्कात्। लुग्वा स्यादिति। "आर्हीयस्ये"ति शेषः। द्विनिष्कमिति। ठञो लुक्, समासाट्ठकोऽसंभवात्।