पूर्वम्: ५।१।३०
अनन्तरम्: ५।१।३२
 
सूत्रम्
बिस्ताच्च॥ ५।१।३१
काशिका-वृत्तिः
बिस्ताच् च ५।१।३१

द्वित्रिपूर्वातिति चकारेण अनुकृष्यते। द्वित्रिपूर्वाद् बिस्तान्ताद् द्विगोः परस्य आर्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विबिस्तम्, द्विबैस्तिकम्। त्रिबिस्तम्, त्रिबैस्तिकम्। बहुविस्तम्, बहुबैस्तिकम्।
न्यासः
विस्ताच्च। , ५।१।३१

"द्वित्रिपूर्वादिति चकारेणानुकृष्यते" इति। ननु च स्वरितत्वादेव द्वित्रिग्रहणमनुवर्त्तिष्यते, स्वरितत्वे सत्यधिकारपरिमाणं न ज्ञायत इति चेत्()? वात्र्तमेतत्()। व्याख्यानतोऽदिकारपरमाणं विज्ञास्यते? एवं तर्हि स्वरितत्वादेव द्वित्रिपूर्वग्रहणस्यानुवृत्तौ सिद्धायां यत्तदनुकर्षणार्थं चकरमधिकं करोति, तेनैतत्? सूचयति--अन्यदप्यत्र किञ्चिदधिकं भवतीति। तेन बहुपूर्वादपि विभाषा लुक्? सिद्धो भवति। "बहिबिस्तम्()" इति। "द्विबिस्तम्()" इति द्वौ विस्तो परिमाणमस्येति ठञ्(), तस्य लुक्()। "द्विबैस्तिकम्()" इति। उत्तरपदवृद्धिः॥
बाल-मनोरमा
बिस्ताच्च १६७३, ५।१।३१

विस्ताच्च। "आर्हीयस्य लुग्वे"ति शेषः। द्विबिस्तं द्विबैस्तिकमिति। द्वाभ्यां बिस्ताभ्यां क्रीतमिति विग्रहः। ठञः पाक्षिको लुक्। इत्यादीति। बहुविस्तं बहुबैस्तिकमित्युदाहार्यम्। "बहुपूर्वाच्चे"ति वार्तिकस्य अत्राप्यनुवृत्तेर्भाष्ये उक्तत्वात्।

तत्त्व-बोधिनी
विस्ताच्च १२९२, ५।१।३१

बिस्ताच्च। चकारेण "द्वित्रिपूर्वा"दित्यत्र पूर्वादित्यनुकृष्यते। तत्फलं तचु "चानुकृष्टं नोत्तरत्रे"त्युत्तरत्रानुवृत्त्यभावः।