पूर्वम्: ५।१।३१
अनन्तरम्: ५।१।३३
 
सूत्रम्
विंशतिकात् खः॥ ५।१।३२
काशिका-वृत्तिः
विंशतिकात् खः ५।१।३२

अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च विंशतिकशब्दान्तातार्हीयेष्वर्थेषु खः प्रत्ययो भवति। अध्यर्धविंशैकीनम्। द्विविंशतिकीनम्। त्रिविंशतिकीनम्। विधानसामर्थ्यातस्य लुक् न भवति।
न्यासः
विंशतिकात्खः। , ५।१।३२

"द्वित्रिपूर्वग्रहणं निवृत्तम्(); पूर्वत्र चानुकृष्टत्वात्(), अस्वरितत्वाद्वा। शतमानादिसूत्रेण ५।१।२७ अणि प्राप्ते तस्य लुकि खो विधीयते। "विधानसामथ्र्यादस्य लुग्न भवति" इति। यदि लुक्? स्यात्(), खविधानमनर्थकं स्यात्()। न ह्रणः खस्य च लुकि सति कश्चिद्विसेषोऽस्ति॥
बाल-मनोरमा
विंशतिकात्खः १६७४, ५।१।३२

विशतिकात्खः। अद्यर्धपूर्वाद्द्विगोरित्येवेति। पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्याऽसंभवाद्द्विगोरित्यस्य प्रयोजनाऽभावादननुवृत्तावपि इह तदनुवर्तत इति भावः। अध्यर्थविंशतिकीनमिति। अध्यर्धर्विंशत्या क्रीतमध्यर्थविंशतिकम्। "विशतितिं()रशद्भ्या"मिति योगविभागात्कन्। अध्यर्थविंशतिकेन क्रीतमिति विग्रहः। द्विविंशतिकीनमिति। द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः।

तत्त्व-बोधिनी
विंशतिकात्खः १२९३, ५।१।३२

विंशतिकात्खः। "शतमानविंशतिके"त्यणिप्राप्ते, तस्य च लुकि प्राप्तेखोऽत्र विधीयते।