पूर्वम्: ५।१।३५
अनन्तरम्: ५।१।३७
 
सूत्रम्
तेन क्रीतम्॥ ५।१।३६
काशिका-वृत्तिः
तेन क्रीतम् ५।१।३७

ठञादयस् त्रयोदश प्रत्ययाः प्रकृताः। तेषाम् इतः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते तेन इति तृतीयासमर्थात् क्रीतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सप्तत्या क्रीतम् साप्ततिकम्। आशीतिकम्। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। शत्यम्। शतिकम्। द्विकम्। त्रिकम्। तेन इति मूल्यात् करणे तृतीया समर्थविभक्तिः। अन्यत्रानभिधानान् न भवति, देवदत्तेन क्रीतम्, पाणिना क्रीतम् इति। द्विवचनबहुवचनान्तात् प्रतययो न भवति, प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतम् इति, अनभिधानादेव। यत्र तु प्रकृत्यर्थस्य सङ्ख्याभेदावगमे प्रमाणम् अस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति। द्वाभ्यां क्रीतम् द्विकम्। त्रिकम्। पञ्चकम्। तथा मुद्गैः क्रीतम् मौद्गिकम्। माषिकम्। न ह्येकेन मुद्गेन क्रयः सम्भवति।
लघु-सिद्धान्त-कौमुदी
तेन क्रीतम् ११४७, ५।१।३६

सप्तत्या क्रीतं साप्ततिकम्। प्रास्थिकम्॥
न्यासः
तेन क्रीतम्?। , ५।१।३६

"साप्ततिकम्(), आशीतिकम्()" इति। "प्राग्वतेष्ठञ्()" ५।१।१८ "नैष्किकम्()"; पाणिकम्()" इति। "असमासे निष्कादिभ्यः" ५।१।२० इति ठक्()। "शत्यम्(), शतिकम्()" इत। "असमासे निष्कादिभ्यः" ५।१।२० इति ठक्()। "शत्यम्(), शतिकम्()" इति। "शताच्च ठन्यतावशते" ५।१।२१ इति। "द्विकम्(), त्रिकम्()" इति। "संख्याया अतिशदन्तायाः कन्()" ५।१।२२। सामान्यार्थाभिधाने तेनेति तृतीयोपादनादिह कस्मान्न भवति--देवदत्तेन क्रीतम्, पाणिना क्रितम्()? इत्यत आह--"तेन" इत्यादि। करणे तृतीया। परिमूल्यात्? ततः प्रत्ययेन भवितव्यम्()। "अन्यत्र" इति। अन्यतर मूल्यात्? करणे तृतीया भवति। "अनभिधानात्()" इति। न हि या कत्र्तरि तृतीया याप्यमूल्यात्? करणे तृतीयोत्पद्यते, तदन्तादुत्पन्नः प्रत्यायो विवक्षितं वस्तु प्रतिपादयितुमलं सम्भवति। तथा ह--दैवदत्तिकं पाणिकमिति चोक्ते, देवदत्तेन कत्र्रा क्रीतम्? पाणिना करणेन क्रीतमित्येषोऽर्थो नावसीयते। देवदत्तेनेति कत्र्तरि तृतीया, पाणिनेति करणे। तदेतदुक्तं भवति--प्रगत्यासन्नविनिमयद्रव्यसम्बन्धानभिधानादिति। "अनभिधानादेव" इति। न हि प्रास्थिकमित्युक्ते, प्रस्थाभ्यां क्रीतं प्रश्थैर्वा क्रीतमित्येषोऽवगम्यते। तत्र पुनरभिधाने को हेतुः? शब्दशक्तिरीदृशी, किमत्रान्येन हेतुना! अपि च प्रस्थादयः शब्दा अर्थतस्तु परिमाणानामर्थानां वाचका इति तेषामभिधेयस्य प्रचये प्रवृत्तिसम्भवे को हेतुः? नन्वेवं वाक्येऽपि प्रचयो नोपपद्येत? नैष दोषः; वाक्ये हि प्रचयस्य वाचिका विभक्तिरस्तीति प्रचयाभिधानं न विरुध्यते। वृत्तौ तु न कश्चित्? प्रचयमाचष्ट इति नासौ वृत्तिविषये युज्यते। यदि तर्हि द्विवचनबहुवचनान्तात्? प्रत्ययेन न भवितव्यम्(), एवं सति द्वाभ्यां क्रीतं द्विकम्(), त्रिभिः क्रीतं त्रिकमित्येवमादि न सिध्यतीत्यत आह--"यत्र तु" इत्यादि। अनभिधानं द्विवचनान्तात्? प्रत्ययानुत्पत्तेर्हेतुः। तच्चाभिधानं क्व न भवति? यत्र प्रकृत्यर्थस्य संख्याभेदावगमो नास्तीति; प्रमाणाभावात्()। इह तु प्रमाणमस्त्येव किञ्चित्()। द्व्यादय एव शब्दाः प्रकृतित्वेनोपात्ताः। ते हि स्वप्रवृत्तिनिमित्तभूतयैव संख्ययाऽवच्छिन्नं वस्तु प्रतिपादयन्ति। अतः स्वार्थस्य संख्याविसेषावगमे प्रमाणम्()। तेनात्रानभिधानादित्येष हेतुनस्तिति भवति प्रत्ययः। "तथा" इत्यादि। यथा त्रिकमित्यादौ प्रकृत्यर्थसंख्यानभावोपगमे प्रमाणसम्भवाद्बहुवचनान्तादपि प्रत्ययो भवति, तथा मौद्()गिकमित्यादावपि मुद्गादिशब्दप्रकृतिरत्र स्वार्थस्य संख्यावगमे प्रमाणमित्येतद्दर्शयितुमाह--"न ह्रेकेन" इत्यादि। मुद्गादिनैकय व्यक्त्या क्रयो न भवतीति विनापि विभक्त्या मुद्गादिशब्दानुवृत्तौ बहुत्वं गम्यते। तत्र प्रमाणं भवति। एकग्रहण त्रयानुपयोगिनोद्र्वयोरप्युपलक्षणं वेदितव्यम्()॥
बाल-मनोरमा
तेन क्रीतम् १६७९, ५।१।३६

तेन क्रीतम्। अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठञादयः स्युरित्यर्थः। ठञिति। "उदाह्यियते इति शेषः। गौ पुच्छिकमिति। "अगोपुच्छे"ति पर्युदासाट्ठगभावे ओत्सर्गिकष्ठञिति भावः। साप्ततिकमिति। सप्तत्या क्रीतमित्यर्थः। "अगोपुच्छसङ्ख्ये"ति पर्युदासाट्ठगभावे ठञिति भावः। प्रास्थिकमिति। प्रस्थेन क्रीतमित्यर्थः। "अगोपुच्छसङ्ख्यापरिमाणा"दिति पर्युदासाट्ठगभावे ठञिति भावः। ठगिति। "उदाह्यियते" इति शेषः। नैष्किकमिति। निष्केण क्रीतमित्यर्थः। "असमासे निष्कादिभ्यः" इति ठगिति भावः।

तत्त्व-बोधिनी
तेन क्रीतम् १२९८, ५।१।३६

तेनक्रीतम्। तेनेति तृतीयान्कात्क्रीतार्थे यथाविहितं प्रत्ययाः स्युः। ठञिति। "आर्हा"दिति सूत्रे "अगोपुच्छे"त्यादिपर्युदासाट्ठगभावे गोपुच्छसप्ततिप्रस्थेभ्यष्ठञ् भवतीत्यर्थः। ननु देव दत्तेन क्रीतं, [पाणिना क्रीतं,]संतोषेण क्रीतमित्यादिवतिप्रसङ्ग इति चेत्। अत्राहुः---करणे तृतीयैवेह समर्थविभक्तिः, सापि मूल्यद्रव्यसमर्पकाच्छब्दादुत्पन्ना, न त्वन्याऽपि, अन्यत्र त्वमिभिधानान्न प्रत्ययः। एतच्च "तद्धिताः"इति महासंज्ञाकरणाल्लभ्यते, तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इति व्याख्यानादिति।