पूर्वम्: ५।१।३७
अनन्तरम्: ५।१।३९
 
सूत्रम्
गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत्॥ ५।१।३८
काशिका-वृत्तिः
गोद्व्यचो ऽसङ्ख्यापरिमाणाश्वादेर् यत् ५।१।३९

गोशब्दाद् द्व्यचश्च प्रातिपदिकात् सङ्ख्यापरिमाणाश्वादिविवर्जितात् यत् प्रत्ययो भवति तस्य निमित्तं संयोगौत्पातौ ५।१।३७ इत्येतस्मिन्नर्थे। ठञादीनाम् अपवादः। गोः निमित्तं संयोगः उत्पातो वा गव्यः। द्व्यचः खल्वपि धन्यम्। स्वर्ग्यम्। यशस्यम्। आयुष्यम्। असङ्ख्यापरिमाणाश्वादेरिति किम्? पञ्चानां निमित्तम् पञ्चकम्। सप्तकम्। अष्टकम्। परिमाण प्रास्थिकम्। खारीकम्। अश्वादि आश्विकः। ब्रह्मवर्चसादुपसङ्ख्यानम्। ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः ब्रह्मवर्चस्यम्। अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग। अश्वादिः।
न्यासः
गोद्व्यचोऽसंख्यापरिमाणा�आआदेर्यत्?। , ५।१।३८

"ठञादीनामपवादः" इति। अदिशब्देन ठगादीनां ग्रहण्()। ननु च संख्यापरिमाणयोः पर्युदासात्? कनष्ठकोऽपवाद इति वक्तुं शक्यते, तत्कस्माट्ठञादीनामित्युच्यते? ठञादीनामित्ययमतद्गुणसंविज्ञानो बहुव्रीहिद्र्रष्टव्यः। अनयैवापेक्षयोक्तम्()--अ()आस्य निमित्तमा()इआकमिति। ठक्(), प्रत्युदाह्मतः। सर्वप्रत्ययसम्भवः, तद्बाधनार्थमिदमुक्तम्()। "पञ्चकम्, अष्टकम्()" इति। संख्यालक्षणः कन्? ५।१।२२। "प्रास्थिकः" इति। प्राग्वतीयष्ठञ्(), ५।१।१८
बाल-मनोरमा
गोद्व्यचोऽसङ्ख्यापरिमाणा�आआदेर्यत् १६८२, ५।१।३८

गोद्व्यचः। तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दात्,द्व्यश्च षष्ठ()न्ताद्यत्प्रत्ययः स्यात्, नतु सङ्ख्यायाः परिमाणाद()आआदेश्चेत्यर्थः। ठकोऽपवादः। द्व्यच इति। "उदाह्यियते" इति शेषः। धन्य इत्यादि। धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः। विजयस्येति। "निमित्त"मिति शेषः। वैजयिक इति। आर्हीयष्ठक्। पञ्चानामिति। "निमित्त"मिति शेषः। पञ्चकमिति। "सङ्ख्यायाः" इति कन्। सप्तकमिति। सप्तानां निमित्तमित्यर्थः। प्रास्थिकमिति। प्रस्थस्य निमित्तमित्यर्थः। "आर्हा"दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ्। खारीकमिति। खार्या निमित्तमित्यर्थः। आर्हीयष्ठरक्। आश्मकमिति। अश्मनो निमित्तमित्यर्थः। आर्हीयष्ठक्। "नस्तद्धिते" इति टिलोपः।

ब्राहृवर्चसादिति। "गोद्व्यचः" इति सूत्रे "ब्राहृवर्चसाच्चे"ति वक्तव्यमित्यर्थः। ब्राहृवर्चस्यमिति। ब्राहृवर्चस्य निमित्तमित्यर्थः।

तत्त्व-बोधिनी
गोव्द्यचोऽसङ्ख्यापरिमाणा�आआदेर्यत् १३००, ५।१।३८

पञ्चकमिति। सङ्ख्यालक्षणैः कन्। आश्मिकमिति। अश्मनो निमित्तमित्यर्थे ठक्। "नस्तद्धिते"इति टिलोपः।